________________
धर्मसंग्रहणीवृत्तिः
॥३६८॥
Jain Education
अपि चागृहीते सति पात्रे प्रतिग्रहमेवोपयोगमात्रग्रहणतो निस्सङ्गभावनातश्च जानीहि दोषाणामल्पतरभावमेव । तुरेवकारार्थः ॥ १०८८ ॥ उपसंहरति
तम्हा न पत्त गहणं जुज्जति जिणवयणमुणियसारस्स । दावभयरक्खणट्टा तणघयगहणं व कंतारे ॥ १०८९ ॥
यत एवं पात्रग्रहणे भूयांसो दोषास्तदग्रहणे चाल्पे तस्मान्न पात्रग्रहणं युज्यते जिनवचनज्ञातसारस्य, दावभयरक्षणार्थ तृणघृतग्रहणमिव कान्तारे इति ॥ १०८९ ॥ अत्र सूरिराह
नखणे तओ पुढविं न मुयइ जहिं सुसइ मुक्कमेत्तं तु । जलउल्लं च परोप्परसंजोगाओ अचित्तं तु ॥ १०९० ॥
न खनति 'तओत्ति' सकः साधुः पृथ्वीं, न मुञ्चति तत्र यत्र मुक्तमात्रमेव सत् तत्-संसक्तं जलं शुष्यति, किंतु जलार्द्रे स्थाने, तदपि च जलार्द्र स्थानं परस्परसंयोगतोऽचित्तमेव, तुरेवकारार्थः, नतु सचित्तम् । तेन 'जलउले कायच्चिय' इति पूर्वोक्तो दोषो नानुषज्यत इति ॥ १०९० ॥
For Private & Personal Use Only
परिग्रहविरतौ धर्मो
पकरणा
नामसङ्गता
॥ ३६८ ॥
jainelibrary.org