SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणीवृत्तिः ॥३६७॥ Jain Education शुष्यति, स्थानस्य शुष्कत्वात् । ततश्चेत्थमपि सत्त्वविराधना । अथ जलार्द्रे स्थाने तत्परिस्थापयिष्यते तेनोक्तदोषाभाव इति, तत्राह - 'जलेत्यादि' जलार्द्रे स्थाने संसक्तं जलं परिस्थापयतः सतः कायाः - पृथिव्यपकाया विपद्यन्ते, संसक्तजलेन तेषा विराध्यमानत्वात् । स्यादेतत् स्युरेते दोषा यद्येवं क्रियते यावता सभण्डकमेव तत् संसक्तं जलं परिस्थाप्यते ततो न कश्चिद्दोष इति अत आह— 'भंडगेत्यादि' भण्डकत्यागेऽपि तस्य गृहस्थादिना परिग्रहादधिकरणदोषसंभव इति ॥ १०८४ ॥ तेणं विणावि दोसो पत्थैमाणस्स अद्धखेदादि । बहुगहणं उस्सुत्तं निष्फलपलिमंथदोसो य ॥ १०८५ ॥ तेन भण्डन विनाऽपि भण्डकत्यागेऽपि सतीतियावत् दोषाः अन्यत् भण्डकं प्रार्थयमानस्याध्व खेदादयः प्रामुवन्ति । अथोच्येत - नह्येकमेव भण्डकं येनान्यत् प्रार्थयमानस्याध्वखेदादयो दोषा भवेयुः किंतु भूयांसि सन्ति ततो यथोक्तदोषानवकाश इति, अत्राह - 'बहु इत्यादि' बहुभण्डकग्रहणमुत्सूत्रं - सूत्रानभिमतं बहुभण्डककरणे च निष्फलपरिमन्थदोष आपद्यते ॥ १०८५ ॥ अथोच्येत नोचितदेशे तदुज्यते नापि सभण्डकं परिस्थाप्यते किंतु तत्संसक्तं जलमन्यस्मिन् जले प्रक्षिप्यते, ततो न दोष इत्यत आह tional For Private & Personal Use Only |परिग्रहविरतौ धर्मो पकरणा नामसङ्गता ॥३६७॥ ww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy