________________
Jain Education
महान् प्रतिबन्धः, वीर्याचारभ्रंसनं (प्रभ्रंशनं ) च । यदपि सुत्रे भ्रमराहरणमुक्तं यथा - " जहा दुमस्स पुष्फेसु भमरो आवियइ रसमित्यादि" तदपि वाङ्मात्रमिति ॥ १०७९ ॥ स्यादेतन्नैवैकस्मिन्गृहे यथातृप्ति भोक्तव्यं किंतु प्रतिगृह मबाधया भिक्षामात्रं, ततो न कश्चित् पूर्वोक्तदोषावकाश इत्येतदाशङ्कयाह -
Prasta अहिगो आउक्कायादिघातदोसो तु । फासुगमवि य तसेहिं णेगंतेणं असंत्तं ॥ १०८० ॥
भिक्षाटनेsपि करचरणप्रक्षालनमन्तरेणानभ्युपगमात्तत्करणे सति अधिक एवाष्कायादिजीवघातदोषः प्राप्नोति । तुरेवकारार्थो भिन्नक्रमश्च स च यथास्थानं योजितः । अष्कायादीत्यत्रादिशब्दादप्कायगतत्रसादिजीव परिग्रहः । अथोच्येत - प्रासुकजलेन करचरणान् प्रक्षालयिष्यति ततः को दोष इत्यत आह- 'फासुगेत्यादि' प्राशु (सु) कमपि तन्दुलोदकादि नैकान्तेनैव त्रसैरसंसक्तं भवति, ततस्तद्याघातदोषः कथं परिहियेतेति ? | वस्त्रेण शोधिते सति तस्मिन् जले न कश्चिद्दोष इति चेत्, न, सूक्ष्मजन्तूनां छेदनादीनां वस्त्रेणाप्यपनेतुमशक्यत्वात् । उक्तं च- "कुसुम्भकुङ्कुमाम्भोवन्निचितं सूक्ष्मजन्तुभिः । न घनेनापि वस्त्रेण, शक्यं शोधयितुं जलम् ॥ १ ॥” इति, तत्र उपयोगः क्रियते ततो १ यथा द्रुमस्य पुष्पेषु भ्रमर आपिबति रसम् ।
onal
For Private & Personal Use Only
www.jainelibrary.org