________________
H+S+
S
XCCCCCESSAX
"इह विरह इति याकिनीमहत्तरासूनोराचार्यहरिभद्रस्य" योगविन्दुटोकायां तत्कार:
"विरह इति च भगवतः श्रीहरिभद्रसूरेः प्रकरणाङ्कयोतकः" इति । प्रवन्धकोशे राजशेखरसूरयश्च
"तत्प्रथमं याकिनीधर्मसूनुरिति हरिभद्रग्रन्थेष्वन्तेऽभूत् , १४४० पुनर्भवविरहः” इति । तत्र
"अष्टकाख्यं प्रकरणं कृत्वा यत्पुण्यमर्जितम् । विरहात् तेन पापस्य भवन्तु सुखिनो जनाः॥" इत्यष्ठकप्रकरणे,
“स तत्र दुःखविरहादत्यन्तसुखसंगतः। तिष्ठत्ययोगो योगीन्द्रवन्द्यस्त्रिजगदीश्वरः॥" इति धर्मबिन्दौ,
"कृत्वा यदर्जितं पुण्यं मयैनां शुभभावतः। तेनाऽस्तु सर्वसत्त्वानां मात्सर्यविरहः परः॥" इति ललितविस्तरायाम्,
Jain Education Intel
For Private & Personel Use Only
Mainelibrary.org