________________
ग्रन्थकार
॥ १९ ॥
Jain Education
उक्तसंख्याक्रमन्थनिर्माणातिरिक्तं महानिशीथसूत्रोद्धारमपि हरिभद्रसूरिभिर्विरचितम् । इदमेवाह प्रभावक चरित्रकृत् “चिरविलिखितवर्णशीर्ण भग्नप्रविवरपत्रसमूहपुस्तकस्थम् ।
कुशलमतिरिहोद्दधार जैनोपनिषदिकं स महानिशीथसूत्रम् ॥ २१९ ॥”
जिनप्रभसूरयस्तु स्वतीर्थकल्पे जिनभद्रगणिक्षमाश्रमणमुक्तसूत्रोद्धारकमसूसुचन्, तदेतद् द्वितीयजिनभद्रगण्यपेक्षं स्याद् हरिभद्रसूरिभिश्व | तत्सांमत्येन साहाय्येन वा तदुद्धारः कृतः स्यात्तदा न विसंवादास्पदम् । “सिद्धसेन - हरिभद्रप्रमुखैरष्टाभिराचार्यैर्महानिशीथमुद्धृतम्” इत्यपि बहूनां प्रवादः, द्वितीयसिद्धसेनाऽपेक्षश्चायमपि न विसंवदति ।
इयं च हरिभद्रसूरीणां कृतिर्विरहाङ्कितवाधिकमुपलभ्यते, कियानपि भागस्तद्रहितोऽपि । एतच्च हारिभद्रीयप्रन्थव्याख्यातृभिरप्यभिप्रेतम् । यदूचुरष्टकवृत्तौ विरहशब्दं विवृण्वन्तः श्रीजिनेश्वरसूरयः
“विरहशब्देन हरिभद्राचार्यकृतत्वं प्रकरणस्यावेदितम्, विरहाङ्कत्वाद् हरिभद्रसूरेरिति ।" पञ्चाशकवृत्तौ श्रीमदभयदेवसूरयोऽपि -
“इह च विरहशब्देन हरिभद्राचार्यकृतता प्रकरणस्य सूचिता, विरहाङ्कत्वात् तस्य ।” ललितविस्तरापञ्जिकायां मुनिचन्द्रसूरयः
For Private & Personal Use Only
365
परिचयः
॥ १९ ॥
www.jainelibrary.org