________________
धर्म, प्र. ५
Jain Educati
( ८६ ) समराइचकहा ( ८७ ) सर्वज्ञसिद्धिः सटीका ( ८८ ) स्याद्वादकुचोद्यपरिहारः ।
| लत्तादिभिश्च निर्दिष्टमिदं स्वस्वपुस्तकेषु ( ८६ ) इयम् - " गुणसेण अग्गिसम्मा" इत्यादिगाथाष्टकमात्रं पूर्वाचार्यप्रणीतमवलम्ब्य निर्मिता प्राकृतभाषामयी शान्तरसप्रधाना कथा । उक्तमिदमस्या एव भूमिकायां ग्रन्थकारेण - " भणिअं च पुव्वायरिए हिं
गुणसेण अग्गिसम्मा
१-८ ।
एवमेआओ चरियसंगहणिगाहाओ । संपयं एयासिं चैव गुरूवएसाणुसारेणं वित्थरेणं भावत्थो कहिज्जइ” महाकविना धनपालेनापि तिलकमञ्जर्यामियमेवमुपश्लोकिता
“ निरोद्धुं पार्यते केन समरादि त्यजन्मनः । प्रशमस्य वशीभूतं समरादित्यजन्मनः ॥ २९ ॥” कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुरवः श्रीदेवचन्द्रसूरयोऽपि शान्तिनाथ चरिते एतत्कर्तृत्वेन हरिभद्रसूरीनेवमस्मार्षुः
“ वंदे सिरिहरिभदं सूरिं विउसयणणिग्गयपयावं । जेण य कहापबंधो समराइचो विणिम्मविओ || "
प्रद्युम्नसूरिभिर्विक्रमतः १३२४ तमे वर्षे अस्या एव प्रतिच्छायारूपः "समरादित्यसंक्षेपः" संस्कृतभाषया पद्यबन्धेन निबद्धः । अस्पाश्च टिप्पनकमप्येकं सुमतिवर्धनगणिना निरमायि ( ८७ ) जैनग्रन्थावल्यामुपात्ता । “विशेषतस्तु सर्वज्ञसिद्धिटीका तोऽवसेयः" इति स्वोपज्ञानेकान्तजयपताकावृत्तितश्च सूचिता ( ८८ ) " अन्यत्र स्याद्वादकुचोयपरिहारादा" इत्याद्यनेकान्तजयपताका टीकावचनतोऽवबुद्धसद्भावः ।
For Private & Personal Use Only
www.jainelibrary.org