________________
ग्रन्थकार
परिचयः
(७३) शास्त्रवार्तासमुच्चयः स्खोपज्ञटीकोपेतः (७४) श्रावकप्रज्ञप्तिवृत्ति: (७५) श्रावकधर्मतत्रम् (७६) षड्दर्शनसमुच्चयः| (७७) षड्दर्शनी (७८ ) षोडशकम् (७९) संकितपंचासी (८०) संग्रहणीवृत्तिः (८१) संपञ्चासित्तरी (८२) संबोधसित्तरी (८३) संबोधप्रकरणम् (८४) संसारदावास्तुतिः (८५) संस्कृतात्मानुशासनम्
॥१८॥
| (७३ ) अयं यशोविजयोपाध्यायैरपि 'स्याद्वादकल्पलता'भिख्यया बृहट्टीकया विभूषितः, मुद्रितश्च सटीकोऽपि (७४) 'सावयपन्नत्ति' इति विख्यातोऽयं मूलग्रन्थः श्रीमतामुमास्वातिवाचकानां कृतिः, वृत्तिश्च हरिभद्रसूरीणामिति प्रसिद्धिः । प्रबन्धकोशे चैतत्कृतितयोपन्यस्तः 'श्रावकप्रज्ञप्तिः' इति ग्रन्थोऽप्यस्या एव संक्षिप्त नामेति संभाव्यते (७५) श्रावकधर्मविधिनामकं प्रथमपञ्चाशकमेवान्यगाथापरिक्षेपेण संवर्धितमिदंनाम्ना प्रख्यातम् , अस्य च मानदेवसूरिभिर्वृत्तिरपि व्यरचि (७६) अयं गुणरत्नसूरिणा मणिभद्रेण च विदुषा क्रमतो बृहत्या लघव्या च टीकया समलङ्कतः, मुद्रितश्च (७७) धर्मबिन्दुभाषान्तरकृता निर्दिष्टेयं षड्दर्शनसमुच्चयाद्भिन्नाऽभिन्ना वेति निर्णयमपेक्षते (७८ ) प्रसिद्धमिदं प्रकरणम् , यशोभद्रसूरिभिर्यशोविजयोपाध्यायैश्च टीकाभ्यामुपशोभितम् । पण्डितकत्तेन त्वस्य विवरणमपि हारिभद्रीयमभिमतम् । मुद्रितमेतत् 8 श्रेष्ठिदेवचन्द्रलालभाई जैनपुस्तकोद्धारे ( ७९ ) अशुद्धं प्रतिभातीदं नाम । पण्डितक्कत्तेन पुनः “संकितपंचसि" इत्युल्लिखितम् , इदमपि च न निश्शङ्कम् (८०) गणधरसार्धशतकवृत्त्यादावियमुल्लिखिता (८१) भाउदाजीपण्डितस्य पुस्तकतः समुद्भतमिदं नाम हरिभद्रसूरिचरित्रे पण्डितहरगोविन्ददासेन । पण्डितक्लत्तस्तु “संयज्ञसित्तरी" इत्येवमुपादर्शयत् (८२) इयमपि पण्डितकत्तप्रमुखैर्निरदिश्यत ( ८३ ) मुद्रितमिदं राजनगरे ( ८४ ) सुप्रसिद्धेयं पद्यचतुष्टयात्मिका वीरस्तुतिः । 'इयं सूरिभिः खावसानकाले निर्मिता' इति प्रसिद्धिः (८५) सुमतिगणिना
SCREEGACASSECRUAR-
in Education Intern a
For Private & Personel Use Only
www.jainelibrary.org