________________
AAAACARRASSAGE
चतितुं बहुदोसमतो कायवं बहुगुणं जमिह ॥ १०७५ ॥ नास्ति च सक्रियाणामबन्धकमिह किंचिदप्यनुष्ठानम्-"जाव णं एस जीवे एयइ वेयइ चलइ फंदइ० ताव णं सत्तविहवंधए वा" इत्यादिवचनप्रामाण्यात् । अतस्त्यक्त्वा बहुदोषं यदिह बहुगुणं तदिह कर्त्तव्यम् ॥ १०७५॥
ता किं वत्थग्गहणं किंवा तणगहणमादि पुव्वुत्तं ।
बहुगुणमिह मज्झत्थो होऊणं किन्न चिंतेसि ? ॥ १०७६ ॥ यत इह प्रेक्षावता यद्बहुगुणं तदेव कर्तव्यं नतु बहुदोषं ततोमध्यस्थो भूत्वा किं न विचिंतयसि-किन्न सूक्ष्मबुद्ध्या पर्यालोचयसि ?, किमिह वस्त्रग्रहणं बहुगुणं किंवा पूर्वोक्तं तृणग्रहणादीति । वस्त्रग्रहणमेव यथोक्तप्रकारेण संयमोपकारितया बहुगुणं न तु तृणग्रहणादि, तत्रोपदर्शितप्रकारेणानेकवनस्पत्यादिजीवव्यापत्तिसंभवादिति । वस्त्रपरित्यागे चावश्यमिदानींतनसाधूनां शीताधभिभवे तृणग्रहणादिसंभवस्तस्मादुचितमेव वस्त्रोपादानमिति ॥१०७६ ॥ उपसंहरति
इय निहोसं वत्थं पत्तंपि हु एवमेव णातवं । छज्जीवणिकायवहो जतो गिहे अन्नभोगेसु ॥ १०७७ ॥
in Eduentan
For Private & Personal Use Only
Vealiw.jainelibrary.org