________________
ग्रन्थोऽपि भवति द्विविधो-द्विप्रकारः द्रव्ये-द्रव्य त्वविषयो द्रव्यरूप इतियावत् भाव-भाव व विषयो भावरूपः। तत्र द्रव्यग्रन्थो द्विपदचतुष्पदापदादिक एव, तुरवधारणे, ज्ञेयोऽनेकविधः-अनेकप्रकार इति ॥ १०७०॥ भावग्रन्थमाह
अट्टविहंपि य कम्मं मिच्छत्ताविरतिदुटुजोगा य ॥
एसो य भावगंथो भणितो तेलोक्कदंसीहिं ॥ १०७१ ॥ अष्टविधमपि कर्म-ज्ञानावरणीयादि तथा मिथ्यात्वमविरतिर्दुष्टयोगाश्च एष एव, चोऽवधारणे, भावग्रन्थो भणितत्रैलोक्यदर्शिभिः सर्वज्ञैः ॥१०७१॥
जो णिग्गतो इमाओ सम्म दुविहातों गंथजालाओ ॥
सो निच्छयनिग्गंथो निग्गच्छंतो य ववहारे ॥ १०७२ ॥ यः सम्यग्निर्गतोऽस्मात्-द्विविधादपि ग्रन्थजालात् स निश्चयनिर्ग्रन्थो-निश्चयनयमतेन निर्ग्रन्य उच्यते, निर्गच्छन् वाऽस्मात् द्विविधात् ग्रन्थजालात् निर्ग्रन्थ उच्यते व्यवहारे-व्यवहारनयमतेनेतियावत् ॥ १०७२॥ १ भावे भावरूपः क०।
Jain Educat
onal
For Private sPersonal use Only
.
sawww.jainelibrary.org