________________
| स्त्रीपरीषहस्यापि सहनप्रसङ्गादिति । गुरुराह - 'नो इत्यादि' यदेतदुक्तं तन्न, सूत्रान्तरबाधया इह स्त्रीपरिभोगप्रसङ्गस्य निवारणात् ॥ १०६३ ॥ तदेव सूत्रान्तरं दर्शयति
नव किंचिप डिसिद्धं अणुनायं वा (वि) जिणवरिंदेहिं । मोतुं मेहुणभावं न विणा सो रागदोसेहिं ॥ १०६४ ॥
नापि किंचित्प्रतिषिद्धं प्रतिषिद्धस्यापि कथंचित् देशकालपुरुषापेक्षया संयमोपकारित्वेनानुमतत्वात्, अनुज्ञातमपि वा सर्वथा नापि किंचित् जिनवरेन्द्रैः, संयमानुपकारितया कल्पनीयस्यापि तत्त्वतोऽकल्पनीयत्वाभिधानात् । उक्तंच - " यत् ज्ञानशीलतपसामुपग्रहं निग्रहं च दोषाणाम् । कल्पयति निश्वये यत् तत्कल्प ( ल्प्य ) मकल्प (ल्प्य ) - मवशेषम् ॥ १ ॥ यत्पुनरुपघातकरं सम्यक्त्वज्ञानशीलयोगानाम् । तत्कल्प्यमप्यकल्प्यं प्रवचन कुत्साकरं यच्च ॥ २ ॥ किंचित् शुद्धं कल्प्यमकल्प्यं स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भैषजाद्यं वा ॥ ३॥ इति, किं सर्वमध्येवमेव नेत्यत आह-मुक्त्वा मैथुनभावं, स हि सर्वथा प्रतिषिद्धः, नतु कथंचिदप्यनुज्ञातः, यस्मात्सः - मैथुनभावो न विना रागद्वेषाभ्यां भवति । तत इत्थमनेन सूत्रेण स्त्रीपरिभोगप्रसङ्गस्य निवारणात् न काणकुण्टादिपरिभोगतः स्त्रीपरीपहसहनप्रसङ्गः, ततश्च साधूक्तमनेषणीयादित्यागतः क्षुदादिपरीषहसहनमिवानेपणीयकमनीयमहामूल्यवस्त्र परित्या
Jain Educationational
For Private & Personal Use Only
www.jainelibrary.org