________________
धर्मसंग्रहणीवृत्तिः
॥३६०॥
Jain Education in
संयमयोगनिमित्तं परिजीर्णादीनि - परिजीर्णाल्पमूल्यादिरूपाणि वस्त्राणि धारयतः सतो यतेः सदा निर्ममत्वस्य कथं न परषहसहनं १, सहनमेवेति भावः ॥ १०६० ॥ अत्र परस्याभिप्रायमाह -
नग्गत्तणमह सुत्ते भणियं ण जहोदियं तयं होइ ।
उवचरिए य परिस्स (रीस ) हसणंपि तहाविहं पावे ॥ १०६१ ॥
अथोच्येत-नग्नत्वं वस्त्रपरिधाने सति न यथोदितं भवति, ततः सूत्रं प्रामाणीकुर्वता वृस्त्रमवश्यं परित्यक्तव्यम् । | अथेत्थमभिदधीथाः- द्विविधमिह लोके प्रसिद्धं नग्नत्वं- मुख्यमुपचरितं च तत्र मुख्यं सर्वथा वस्त्रपरित्यागेन यथा तदानीमेवोपजायमानस्य शिशोः, उपचरितम् - अल्पमूल्यजराजीर्णवस्त्रपरिभोगेन तथा च काचित्परिहितात्यन्तजीपूर्णवस्त्रा सती कोलिकं प्रत्याह- 'त्वर (ख) कोलिक ! नाहं वर्त्त' इति । तत्र मुख्यं भगवतामेव तीर्थकृतामुपपद्यते | तेषामुत्तमसंहननादिगुणोपेततया वस्त्रमन्तरेणापि यथोक्तदोषप्रसङ्गाभावेन खफलसाधकत्वात् । तदुक्तम् -"निरु वमधिइसंघयणा चउनाणातिसयसत्तसंपन्ना । अच्छिद्दपाणिपत्ता जियचेलपरीसहा सवे ॥ १ ॥ तम्हा जहुत्तदोसे
१ निरुपमधृतिसंहननाश्चतुर्ज्ञाना अतिशयसत्त्वसंपन्नाः । अच्छिद्रपाणिपात्रा जिताऽचेलपरीषद्दाः सर्वे ॥ तस्माद्यथोक्तदोषान् प्राप्नुवन्ति न वस्त्रपात्ररहिता अपि । तथा (द) साधनं च तेषां तस्मात्तग्रहणं न कुर्वन्तीति ॥
For Private & Personal Use Only
परिग्रहवि
रतौ धर्मो
पकरण
स्यापरि
ग्रहता
॥३६०॥
www.jainelibrary.org