________________
Jain Education
न तस्य तत्र प्रवृत्याश्रमणत्वमिति । स्यादेतत्, विरक्तमना एव श्रमणत्वे योग्यो, रागादिप्रवृत्तिनिदानं चेदं वस्त्रं, तत्कथं तद्युक्तः श्रमणत्वयोग्यो भवेदित्यत आह- रागादिप्रवृत्तौ च वस्त्रविषयायां चोद्यमानायां तट्टिकादिष्वपि समानं, तत्रापि हि कस्यचित् अनिभृतात्मनो रागादिप्रवृत्तिर्भवत्येव ॥ १०५८ ॥ तथा चाह
गादिदूसियम किंवा न करेइ अणिहुतो जीवो ? | किं तेणं अणिदाणा अकज्जसिद्धित्ति वइमेत्तं ॥ १०५९ ॥
रागादिदूषितमनाः - रागद्वेषादिदोष कलुषितमनाः किं वा न करोत्यनिभृतो जीवः - रागादिवशग: सन् ?, तन्नास्ति यत् कुर्वन्न संभाव्यते इतियावत्, ततः किं तेन - रागादिवशगेनानिभृतात्मना । यस्तु संसारात् विरक्तमनास्तस्य न वस्त्रविषया रागादिप्रवृत्तिर्यथा तट्टिकादिषु इति, तस्माद्दातुर्दानादकार्यसिद्धिरिति वाङ्मात्रमेव तत् ॥ १०५९ ॥ यदप्युक्तं- 'परीसहासहणंति' तत्राप्याह
संजमजोग निमित्तं परिजुन्नादीणि धारयंतस्स ।
कह ण परिस्स ( स ) हसहणं ? जइणो सइ निम्ममत्तस्स ॥ १०६० ॥
१ प्रवृत्तावश्रमणत्वमिति क० ।
For Private & Personal Use Only
www.jainelibrary.org