________________
धर्मसंग्रहणीवृत्तिः
॥ ३५८ ॥
सि न जायते ज्ञातभवस्वरूपस्य त्यक्तकलत्रादिग्रन्थस्य शोकः, शोकहेतोः संसारस्वरूपापरिज्ञानादेरभावात् ॥ १०५२ ॥ अह दीहभव भासा सेहप्पायस्स संभवो अस्थि । गादिलो चोएयवो न बुद्धिमता ॥ १०५३ ॥
सो
अथ दीर्घभवाभ्यासात् शैक्षप्रायस्य प्रमादतो नष्टे सति वस्त्रे शोकस्य संभवोऽस्ति तस्मान्न तत्परिगृह्यत इति । अत्राह - 'सो' इत्यादि, सः - शोकसंभवो यस्मात्तट्टिकादिष्वपि तुल्यः, तेष्वपि हि प्रमादनष्टेषु सत्सु दीर्घभवाभ्यासात् शैक्षप्रायस्य शोकः संभवत्येव, ततः सोऽस्मान् प्रति बुद्धिमता न चोदयितव्य इति । अधिकरणदोषः प्राग्वत् परिहर्त्तव्यः ॥ १०५३ ॥ यचोक्तं- 'सावेक्खयाएत्ति' तत्रोत्तरमाह -
जो चयइ सयणवग्गं हिरन्नजायं मणोरमे विसए । जिणवणणीतिकुसलो तस्स अवेक्खा कहं वत्थे ? ॥ १०५४ ॥
यो नाम त्यजति खजनवर्ग हिरण्यजातं मनोरमान् विषयान् जिनवचननीतिकुशलश्च तस्य कथं परिजीर्णाल्पमूल्यवस्त्रमात्रेऽपेक्षा भवेदिति भावः १ ॥ १०५४ ॥ अत्र पर आह
For Private & Personal Use Only
परिग्रहविरतौ धर्मो
पकरण
स्यापरि
ग्रहता
॥ ३५८ ॥
w.jainelibrary.org