________________
CASCAROSALARSHA
वोसिरिएसु न दोसो तद्विगमादीसु अह उ वत्थेवि ।
तुल्लं चिय वोसिरणं साहणभावो य परलोगे ॥ १०५१ ॥ अथ तट्टिकादिषु स्तेनैरपहतेष्वपि त्रिविधं त्रिविधेन व्युत्सृष्टेषु सत्सु न दोषः-अधिकरणलक्षणोऽस्माकमुपजायत ६ इति मन्यसे, ननु तदेतत् त्रिविधं त्रिविधेन व्युत्सर्जनं वस्त्रेऽपि तुल्यमेव-समानमेव, ततस्तत्राप्यधिकरणलक्षणो दोषो । न भविष्यतीति । अथ तट्टिकादीनां मोक्षसाधनत्वात्कदाचिदधिकरणदोषसंभवेऽपि न तदुपादानमन्याय्यमिति । अत्राह-'साहणेत्यादि' परलोके-परलोकविषये साधनभावोऽपि वस्त्रे तुल्य एव यथोक्तं प्राक, ततस्तदप्यवश्यमुपादातव्यमिति ॥१०५१॥ शोकदोषाभावश्च वक्ष्यमाणनीत्या द्रष्टव्यः, यदप्युक्तम्-'पमायनहेवित्ति' तत्रापि दोषाभावमाह
अपमत्तस्स न नासइ नट्रेवि न जायती तहिं सोगो।।
मुणियभवसरूवस्स(उ) चत्तकलत्तादिगंथस्स ॥ १०५२ ॥ अप्रमत्तस्य सतः साधोवस्त्रं तावत्सर्वथा न नश्यत्येवाप्रमत्तत्वविरोधात्, कदाचिच प्रमादवशान्नष्टेऽपि तस्मिन् वास
CASTOCOCCUSAUGARCANCE
JainEducation inte
For Private Personal use only
www.jainelibrary.org