SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ CRORS धर्मसंग्रहणीवृत्तिः ॥३५॥ परिग्रहविरतौ धर्मोपकरणस्यापरिग्रहता उवगारिगा तई अह एत्थवि भणिओ उ उवगारो॥ १०४९ ॥ &ा अथ मन्येथाः-यतिदेहस्य-साधुशरीरस्य या पीडा भवति सैव भारवहने दोष इति, ननु नियतविहारात्सा-पीडा किन्न भवति ?, भवत्येवेति भावः । अथ 'तइत्ति' सका नियतविहारनिमित्ता देहस्य पीडा उपकारिका ततो भवन्त्यपि सा न दोषवतीति प्रतिपद्येथाः, यद्येवं तर्हि अत्रापि-वस्त्रे तृणग्रहणादिकायवधविवर्जनलक्षण उपकारो मनु भणित एव । तुरवधारणे । ततो वस्त्रस्यापि भारवहनं न दोषकृदिति ॥१०४९॥ यदप्यवादीत्-'तेनाहडाधिगरण'मित्यादि तत्रापि दोषाभावमाह न हरंति तहाभूतं वत्थं तेणा पओयणाभावा। खुदहरणं च तटिंगकुंडिगमादीसुवि समाणं ॥ १०५० ॥ न हरन्ति तथाभूत-परिजीर्णमल्पमूल्यं च वस्त्रं स्तेनाः-चौराः। कुत इत्याह-प्रयोजनाभावात् , नहि तथाभूतेन वाससा किंचिदपि तेषां प्रयोजनं सिद्ध्यतीति । अथ क्षुद्राः केचन तथाभूता अपि सन्ति ये तथाविधमपि वस्त्रं गृह्ण- न्तीत्यत आह-'खुद्देत्यादि' क्षुद्रहरणं च-क्षुद्वैरपहरणं च तट्टिकाकुण्डिकादिष्वपि समानं, सन्ति हि केचित्तथाभूता अपि क्षुद्रा ये तट्टिकाद्यप्यपहरन्तीति ॥ १०५०॥ अत्र परस्य मतमाह ॥३५७॥ Jain Education in For Private Personel Use Only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy