SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ अत्र परिहारः-यदि भयमात्रसंभावनाद्वस्त्रपरित्यागस्ततः शरीरविषयेऽपि वापदादिभ्यो भयमुपजायते ततस्तदपि भवता नियमात्परिहर्त्तव्यम् । अथ मोक्षसाधनत्वात् भयहेतुभूतमपि शरीरं न परित्यज्यते नन्वेवं तर्हि वस्त्रमपि अनेनैव हेतुना यथोक्तविधिपुरस्सरमवश्यं धारयितव्यमिति समानः पन्थाः। एवमविहारपक्षेपि आक्षेपपरिहारावभिधातव्यौ ॥ १०४७॥ यच्चोक्तं-'भारवहणं चेति' तत्रोत्तरमाह भारवहणंपि परिमियमाणेसुं तेसु हन्त कह जुत्तं ? । कह वा न तहिगादिसु ? को वा तम्मत्तए दोसो ? ॥ १०४८॥ . भारवहनमपि परिमितमानेषु तेषु-वस्त्रेषु प्रियमाणेषु हन्त कथं युक्तं ?, नैव युक्तमिति भावः, परिमितमानतया तेषां भाराभावात्। कथं वा न तट्टिकादिषु आदिशब्दात् कुण्डिकादिपु ? च भारवहनं, तत्रापि तदस्त्येव, न च दोषकृत् तद्वदिहापीति भावः । अथ तट्टिकादीनां मुक्तिसिद्धिनिवन्धनत्वात्तद्भारवहनं न दोषायेति मन्यसे ननु तदेतन्मुक्तिसिद्धिनिबन्धनत्वं वस्त्रेऽपि समानं, यथोक्तं प्रागिति । अपि च, 'को वेति' पक्षान्तराभ्युपगमे तन्मात्रके-भारवहनमात्रके दोषो', नैव कश्चिदितिभावः॥ १०४८॥ अत्र परस्य मतमाह जइदेहस्सऽह पीडा निययविहरातों सा न कि होति ? । For Private Personal Use Only Dinelibrary.org JainEducation inteNE
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy