SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३५६॥ परिग्रहविरतौ धर्मोपकरणस्यापरिग्रहता अथाविवेकात्तन्मात्रादपि-परिजीर्णाल्पमूल्यवस्नमात्रादपि केषांचित्साधूनां 'तइत्ति' सका विभूषा कर्तव्यतया भवति सा च महान् दोष इति, यद्येवं तर्हि तट्टिकापिच्छिकाकुण्डिकादिषु आदिशब्दात् देहादिषु 'तओत्ति' सको विभूषाकारणमविवेकः कथं न भवेत् ?, तत्रापि भवत्येवेति(भवेदेवेति) भावः ॥ १०४६ ॥ मुच्छाभयाविहारा एतेणं चिय हवंति पडिसिद्धा । अक्खेवपसिद्धीओ जोएयवा सबुद्धीए ॥ १०४७ ॥ | मूर्छाभयाऽविहारा 'एतेनैव' विभूषानिराकरणेन प्रतिषिद्धा भवन्ति ज्ञातव्याः, समानयोगक्षेमत्वात् , ये पुनरिहाक्षेपप्रसिद्धी ते खबुद्ध्या योक्तव्ये, यथा मूर्छाहेतुर्वस्त्रं क्वचित्तथादर्शनादित्याक्षेपः, अत्र परिहारो-यदि वस्त्र कस्यचिन्मू हेतुस्तर्हि देहान्नपानौषधपुस्तककपिलिकानखरदनकमण्डलुप्रतिलेखनकतट्टिकापुस्तकस्थापनिकादयोऽपि कस्यचिन्मूर्छाहेतवो दृष्टा इति तेऽपि परिहार्याः । अथैतेषु देहादिषु मोक्षसाधनमत्या न मूर्योपजायते तर्हि वस्त्रेष्वपि मोक्षसाधनमत्या न मूर्छा भविष्यतीति । अपि च, यदि स्थूले वाससि परिजीर्णे यतःकुतश्चिदपि याचितलभ्ये मूर्छा संभाव्येत ततो दुर्लभतरे अक्रेये शरीरे सुतरां मूर्छा संभावनीया, ततो विवेकचक्षुषः शरीरमिव वस्त्रमपि न मूर्छाहेतुरिति न कश्चिदोषः । तथा भयहेतुर्वस्त्रं यथाऽभिहितं प्राक् तस्मादेतदपि परित्याज्यमित्याक्षेपः, ॥३५६॥ Jain Educaci o nal For Private Personel Use Only ww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy