________________
4-
SACHAR
मन्यते तद्वदिहापीति भावः । तत्-भोजनं शरीरोपष्टम्भकारितया धर्मसाधनमिति तत्र भवन्नपि पलिमन्थो न दो-II पायेति चेत् ननु वस्त्रमपि तथैव-धर्मसाधनतयैव प्राक् भणितं 'तणगहणअग्गिसेवणकायवहविवजणेण उवगारो' इत्यादिना ग्रन्थेन, तत एतदपीह समानमेवेति ॥ १०४४ ॥ यत्पुनरुक्तमत्यन्तकमनीयमहामूल्यवस्त्रपरिधाने सत्यात्मनो विभूषा कृता भवेदित्यादि, तदत्यन्तमसमीचीनम् , यत आह
एवंविहं च एतं विहिणा परिजाइतं धरेंतस्स।
भिक्खणसीलस्स तहा राढाए हंत को अत्थो? ॥१०४५॥ एवंविधं च-परिजीर्णमल्पमूल्यं च एतत्-वस्त्रं विधिना परियाचितं धारयतस्तथा प्रतिगृहं भिक्षणशीलस्य हन्त साराढाया-विभूषायाः कोऽर्थो ?, नैव कश्चित् , तन्निमित्ताभावात् । अत्यन्तकमनीयमहामूल्यवस्त्रपरिधानं हि राढाया निमित्तं तच्च नाभ्युपगम्यते इति कोऽत्र राढाया अवकाशः १ ॥१०४५॥
अह अविवेकातों तई तम्मत्ताओवि होइ केसिंचि।
तद्विगपिच्छिगकुंडिग देहे(माई) सुतओ कहं न भवे ? ॥ १०४६ ॥ १ अग्धो इति क पुस्तके ।
-SCRECASS-52
For Private Personal Use Only
Howjainelibrary.org