________________
धर्मसंग्रहणीवृत्तिः
॥ ३५५॥
Jain Education
भोजनं तादृशेऽल्पधने न ग्रायं तस्य पीडाभावात्, ततो न कश्चित्तत्र दोष इंति, यद्येवं तर्हि हन्त वस्त्रेऽपि एवमल्पधनपरित्यागेन महाधनस्य दातुः सकाशात् परिगृह्यमाणे को दोषो ?, नैव कश्चित् ॥ १०४२॥ यदप्युक्तम्- 'संघणमाईसु पलिमंथोत्ति' तदपि दूषयितुमाह
आहागडस्स गहणे संधणमादी ण होंति दोसा तु । तदभावादनिमित्तो कहं णु पलिमंथदोसो उ ? ॥ १०४३ ॥
यथाकृतस्य - स्वयंसंधितादिरूपस्य वस्त्रस्य ग्रहणे संधानादयो दोषाः सर्वथा न भवन्त्येव । तुरेवकारार्थो भिन्नक्रमश्च । ततश्च तदभावात् - संधानादिदोषाभावात् अनिमित्तः कथं नु परिमन्थदोषो भवेत् ?, नैव भवेदितिभावः तुः पूरणे ॥। १०४३ ॥
तस्सालाभे इतरस्स गहणभावोऽवि भोयणसमाणो ।
तं धम्मसाहणं चे वत्थंपि तहेव णणु भणितं ॥ १०४४ ॥
तस्य-यथाकृतस्य वस्त्रस्यालाभे सति इतरस्य - संघानादिकर्मयोग्यस्य ग्रहणभावोऽपि भोजनसमानो द्रष्टव्यः । यथा हि भोजनमेकस्मिन् गृहे न लब्धमिति गृहान्तरेऽपि परिभ्रम्यते न च तत्र परिभ्रमणनिमित्तः पलिमन्थदोषो
For Private & Personal Use Only
परिग्रहविरतौ धर्मो
पकरणस्यापरि
ग्रहता
॥ ३५५॥
jainelibrary.org