________________
Jain Education Int
लज्जइ जमित्थ (स्थि) मादीण तेण तं गिण्हइत्ति सावेक्खा । लुंचियसिरस्स भिक्खं हिंडतस्सेह का लज्जा ? ॥ १०५५ ॥
यत् - यस्मात् ख्यादीनां लज्जते नमः सन् तेन कारणेन वस्त्रं गृह्णाति इति - हेतोः सापेक्षस्तस्मिन् वस्त्रे इति चेत् ? । ननु लुञ्चितशिरसः 'भिक्खं हिंडतस्सेति' अत्र सप्तम्यर्थे द्वितीया, यथा “कत्तो रत्तिं मुद्धे ! पाणियसद्धा सउणयाणं” 'कुतो रात्रौ मुग्धे ! पानीयश्रद्धा शकुनिकानामित्यत्र' ततो भिक्षायां भिक्षानिमित्तं हिण्डमानस्य - भ्राम्यत इह खलु का लज्जा ?, यद्वशाद्वस्त्रे सापेक्षो भवेत्, नैव काचिदिति भावः । यदि पुनर्भवेत् तर्हि नैव शिरोलुञ्चनं कुर्यात्, नापि प्रतिगृहं भिक्षार्थं भ्राम्येत्, तत्र हि भूयसी लज्जा भवतीति ।। १०५५ ।। पर आह
ताकिंण तं चएई उवगारणिरिक्खणा जहाऽऽहारं । भणितोय तओ पुर्वि संजमजोगाण हेउत्ति ॥ १०५६ ॥
यदि सर्वथा नापेक्षा 'ता' ततः किं न तत् त्यजति ?, निबन्धनाभावात् । अत्राह - उपकारनिरीक्षणात् यथा - आहारम्, आहारो हि यतिना तद्विषयासक्त्यभावेऽपि धर्मकायोपकारहेतुत्वात् गृह्यते, तद्वदिदमपि वखमिति भावः । अथोच्येत - कोऽसावुपकारो यन्निरीक्षणादिदं वस्त्रं गृह्यत इत्यत आह- 'भणियो य' इत्यादि, भणितश्च सक:
For Private & Personal Use Only
ainelibrary.org