________________
धर्मसंग्रहणीवृत्तिः
परिग्रहविरतौ धर्मोपकरणस्यापरिग्रहता
॥३५४||
ALSO
तदिहापि विधिना वस्त्रं प्रक्षालयतो दोषो भवन्नपि न प्रायश्चित्तस्य विषय इति ॥ १०३८ ॥ अत्र परस्य मतमारेकते
अह जस्स एरिसो खलु देहो सो अणसणेण तं चयइ ।
एसुस्सग्गो भणितो अम्हाणं सत्थगारेहिं ॥ १०३९ ॥ PI अथोच्येत यस्य साधोरीदृशः संसक्तग्रहणिः खलु देहः स साधुरनशनेन तं-देहं त्यजति, एष उत्सगर्गो भणितोस्माकं शास्त्रकारैः, ततो न कश्चिद्दोष इति ॥१०३९॥ अत्राचार्य आह
गुरुलाघवचिन्ताऽभावतो तयं सत्थमेव णो जुत्तं ।
__ अववायविहाणम्मि य पुव्वुत्तो चेव दोसो उ ॥ १०४०॥ इह देशकालपुरुषापेक्षया गुणागुणावाश्रित्य यत्र गुरुलाघवचिन्ता विधीयते तत्परमार्थतः शास्त्र, सम्यग्विधिशासनात्, संसक्तग्रहणेश्चाशठमावस्याल्पीयान् दोषः सोऽपि यतनया प्रवर्त्तमानस्य प्रायश्चित्तस्याविषयः महांश्च तथाविधसंयमपरिपालनेनोपकारस्तद्यदि तस्योत्सर्गतो मरणमेव विशिष्यते तर्हि गुरुलाघवचिन्ताकारित्वाभावात्तकत् शास्त्रमेव न युक्तं-नाविगीतप्रामाण्यमिति कथं तद्बलादविप्रतिपत्तिर्भवेदिति । तदेवमुत्सर्गतोऽनशनविधाने दोषम
॥३५४॥
Jain Education
onal
For Private & Personal Use Only
www.jainelibrary.org