SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ तेषामेव गुरुकर्मणां प्राणिनां एवमिहापीति ॥ १०३७ ॥ अथोच्यत-पूर्वोक्तविधिनाऽपि वस्त्रं प्रक्षालयतः कदाचिदवश्यं षट्पदिकादिप्राणिव्यपरोपणं संभाव्यते, नहि सर्वोपाधिविशुद्धः छद्मस्थोपयोगो भवतीत्यत आह जो पुण विहीऍ दोसो संसत्तग(ग्ग)हणिवोसिरणतुल्लो। __ असढस्स सोवि भणितो पायच्छित्तस्स[अ]विसओत्ति ॥ १०३८ ॥ दो यः पुनर्विधिनापि प्रक्षालयतो दोषः-पटूपदिकादिप्राणिव्यपरोपणलक्षणो जायते संसक्तग्रहणिव्युत्सर्जनतुल्यः-11 |जिनप्रणीतविधिपूर्वकं संसक्तग्रहणिपुरुषस्य यत् पुरीषव्युत्सर्जनं तत्तुल्यः सोऽप्यशठस्य सतः प्रायश्चित्तस्याविषयो भणितः परममुनिभिः, तस्य शुद्धत्वात् , एतदुक्तं भवति-यथा संसक्तग्रहणेः संयतस्य "संसत्तग्गहणी पुण छायाए निग्गयाएँ वोसिरह" इत्याद्यागमाभिहितेन विधिना पुरीषं व्युत्सृजतः प्राणिव्यपरोपणलक्षणो दोषो भवन्नपि न प्रायश्चित्तस्य विषयो भवति, तस्य यतनया प्रवर्त्तमानत्वात् , यतनायाश्च विशेषतो धर्माभिवृद्धिहेतुत्वात् , तदुक्तम्"जयणेह धम्मजणणी जयणा धम्मस्स पालणी चेव । तव्वुड्डिकरी जयणा एगंतसुहावहा जयणे ॥१॥ त्यादि" ॥ १ संसक्तप्रणिः पुनश्छायायां निर्गतायां व्युत्सृजति । २ यतनेह धर्मजननी यतना धर्मस्य पालनी चैव । तद्वद्धिकरी यतना एकान्तसुखा (शुभा) वहा यतना ॥ Jain Education ANDonal For Private & Personel Use Only MMw.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy