________________
यवधप्रसङ्गापेक्षया इत्यर्थः अत्रापि-वस्ने 'थोवादित्ति' स्तोकं सम्मूर्छनं तदपि च भवद्विधिना शक्यं वर्जयितुमित्ये-12 तत् तुल्यमेव । तुरेवकारार्थः॥१०३३॥ अत्र पर आह
___ अह धम्मसाहणं सो वत्थंपि तहेव होइ दट्टत्वं ।
भणिओववत्तिओ चिय जइणो तं कायठितिहेऊ ॥ १०३४॥ अथ मन्येथाः सः-देह आहारो वा धर्मसाधनमितिकृत्वा खल्पदोषखभाव(सद्भावे)ऽपिन परित्यज्यते इति । ननु तर्हि वस्त्रमपि तथैव-धर्मसाधनतयैव भवति द्रष्टव्यं, यस्मात् भणितोपपत्तितः-अभिहितयुक्तितः 'तणगहणअग्गिसेवणे'त्यादिरूपाया एवकारो भिन्नक्रमः यतेः-साधोस्तत्-वस्त्रं कायस्थितिहेतुरेवेति ॥ १०३४ ॥ यदप्युक्तं वस्त्रधावनेऽप्कायिकपट्पदिकाप्राणिनां व्यापत्तिरिति, तत्रापि प्रत्युत्तरमाह
जिणभणियविहीँए ण य धुवणे पाणाण होइ वावत्ती।
पडिलेहणा दगंपि य फासु उवयोगमो य विही ॥ १०३५॥ जिनमणितविधिना वक्ष्यमाणेन न च भवति धावने-वस्त्रस्य प्रक्षालने प्राणानाम्-अप्कायिकादीनां व्यापत्तिस्तस्मान्न १न नः परित्यज्यते इति क पुस्तके ।
Jain Education
For Private & Personel Use Only
IY
jainelibrary.org