________________
अह उत्तमसंघयणे सुझाणस्सवि न होइ णासोत्ति । मोत्तूण तयमजुत्ता सेसेसुं हंत पव्वज्जा ॥ १०३० ॥
अथोच्येत उत्तमसंहनने - वज्रर्षभनाराचलक्षणे सति शुभध्यानस्यापि आस्तां धर्म्मकायस्येत्यपिशब्दार्थः न भवति नाशस्ततो न कश्चिदपि पूर्वोक्तदोषावकाश इति । ( अत्राह - ) ' मोत्तूण इत्यादि' यद्येवमिष्यते हन्त तर्हि मुक्त्वा तकम् - | उत्तमसंहननोपेतमतिशायिनं शेषेषु अयुक्ता प्रव्रज्या, भणितदोषप्रसङ्गात्, न चैवमस्ति, शेषेष्वपीदानीं तस्या अभ्युपगम्यमानत्वादिति ॥ १०३० ॥ यच्चोक्तं वस्त्रे हि परिभुज्यमाने शरीरमलसंपर्कतः षट्पदिकादिजीवसम्मूर्च्छना भवतीत्यादि, तत्र प्रतिविधानमाह -
Jain Education national
संमुच्छणा ण जायति पायं विहिसेंवणाऍ वत्थम्मि । संभवमेत्तेणं पुण देहादीसुंपि सा दिट्ठा ॥ १०३१ ॥
प्रायो - बाहुल्येन विधिसेवनया सुत्राभिहितया वस्त्रे षट्पदिकादिजीवसम्मूर्च्छना नोपजायते । अथोच्येत तथापि | संभवोऽस्तीति तत्परिहियते इत्यत आह- 'संभवेत्यादि' संभवमात्रेण पुनर्देहादिष्वपि - देहे कक्षाकेशादौ आदिशब्दा
For Private & Personal Use Only
www.jainelibrary.org