SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ASSESSOS परिग्रहविरतौ धर्मोपकरणस्यापरिग्रहता धर्मसंग्रह जतिवि ण विणस्सति च्चिय देहो झाणं तु नियमतो चलति । णीवृत्तिः सीतादिपरिगयस्सिह तम्हा लयणं व तं गझं ॥ १०२८ ॥ ॥३५॥ । यद्यपि न विनश्यति देहस्तथापि ध्यानं शीतादिपरिगतस्येह नियमतश्चलत्येव, चियशब्द एवकारार्थो भिन्नक्रमश्च, स च यथास्थानं योजितस्तस्मालयनमिव तत्-वस्त्रमुपकारित्वादवश्यं ग्राह्यमिति ॥ १०२८ ॥ स्यादेतत्, यदि शीतादिवेदनाभिरत्यन्तमभिभूतस्य तस्य मरणमुपढौकते तर्हि तदपि सफलमेव, मरणपर्यवसानं हि जीवितं, ततोऽवश्यमेव कदाचिन्मर्तव्यं तद्यद्यधुना धर्ममाचरतो मरणं भविष्यति किमयुक्तं स्यादित्यत आह सुहझाणस्स उ नासे मरणंपि न सोहणं जिणा बेंति । अन्नाणिची (वी)रचरियं वालाणं विम्हयं कुणति ॥ १०२९ ॥ || शीतादिवेदनापरिगतस्य हि नियमतः शुभध्यानविघातसंभव इत्युक्तं, ततः शुभध्यानस्य विनाशे सति मरणमपि दान शोभनं जिना युवते. आर्तध्यानादिसंभवेन तिर्यग्योन्यादिषूपपातसंभवात् । यत्पुनरुक्तं-मरणपर्यवसानं हि जीवितमित्यादि तदयुक्तमेव, अज्ञानिची(वी)रचरितं हि बालानामेव-अज्ञानामेव विस्मयं करोति नतु गुरुपारंपर्यागतागमोपनिषद्वेदिनाम् , इह परलोके वा तस्य भावतो दुःखनिबन्धनत्वादिति ॥ १०२९ ॥ अत्र पराभिप्रायमाह SAASHARAARAA ASHISHUSHUSHUSHUS ॥३५॥ For Private Personel Use Only lawww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy