________________
Jain Education
ग्रहण अग्गिसेवकायवहबिचजणेण उवगारो । तदभावे य विणासो अणारिलो धम्मकायस्त | १०२७ ॥
परिग्रहाभावे हि शयनादिनिमित्तं सचित्ततृणपर्णादीनां परिग्रहं कुर्यात्, तथा च सति वनस्पतिकायविघातसंभवः । अथाचित्ततृणपर्णादिग्रहणं करिष्यति ननु तत्रापि शुषिरत्वात् कुन्थ्वाद्यनेकप्राणिगणविनाशोऽपरिहार्य एव, शिशिरकाले च शीतपीडितवपुस्सन् अग्निकार्यं समारभेत तत्समारंभे च पृथ्वीकायादिषड्जीवनिकायवधप्रसङ्गस्ततस्तृणगृहणेनाग्निसेवनेन च यः कायवधप्रसङ्गस्तद्विवर्जनेन वस्त्रस्योपकारः - उपकारित्वं द्रष्टव्यं, कायवधप्रसङ्गवर्जनं वस्त्रस्योपकार इतियावत् उपलक्षणमेतत् तेन निशि खाध्यायभ्यानमिच्छतः शीतवेदनाभिभूतस्य | मुनेराच्छादनेन समाधानसंपादनं, सचित्तपृथ्वीरजोऽवगुण्ठितस्यात्मादेः प्रमार्जनं, हिमतुषारमहिकावर्षासारोदकप्रामित्राणकरणं सचित्तमहावाते वाति सति शरीरप्रावरणेन तद्रक्षणमित्यादिरूपोऽप्युपकारो द्रष्टव्यः । अत्रैष विपक्षे बाधामाह - 'तदभावेत्यादि' तदभावे च वस्त्राभावे च शीतादिवेदनयाऽत्यन्ताभिभवेन विनाशोऽनार्षः - आर्यप्रवचनासम्मतो धर्म्मकायस्य प्राप्नोति ॥ १०२७॥ अथ न भवति शीतादिवेदनयाऽत्यन्तमभिभूतस्यापि धर्म्मकायस्य विनाशः तथापि दोष एव, तथाचाह
For Private & Personal Use Only
w.jainelibrary.org