________________
धर्मसंग्रहणीवृत्तिः
॥ ३४८ ॥
Jain Education
नगरादिषु मासकल्पादिरूपो विहारक्रमोऽपि न स्यात् । अपि च, वस्त्रपरिग्रहे सति विहारक्रमं कुर्वतो वस्त्रोद्वहने भारवहनं भवेत्, तच्च वपुः पीडाकरं, वपुःपीडा च स्वाध्यायादिविघातकारिणीति । अन्यच्च कथंचित् तस्मिन् वाससि स्तेनैराहते - अपहृते सत्यधिकरणदोषो भवति, शोकश्चात्मनो जायते, एतच्च दोषद्वयं प्रमादनष्टेऽपि द्रष्टव्यम् ॥ १०१८॥ सावेक्खया य दाणादकज्जसिद्धी परीसहासहणं । गुरुपडिकुटुं गिहिलिंग गंथमो वत्थदोसा उ ॥ १०१९ ॥
वह गृह्यमाणे नियमतस्तस्मिन्नपेक्षा भवति, सा च वीतरागभावप्रतिपन्थिनी, तद्भावनिमित्तं चेदं संयमानुष्ठानमिति । 'दाणादकज्जसिद्धित्ति' श्रमणस्य-निर्ग्रन्थस्य वस्त्रमनुचितमेव, तद्भावे नैर्ग्रन्ध्याभावप्रसङ्गात्, ततो यदा तस्मिन्ननुचितेऽपि वस्त्रे श्रमणस्य प्रवृत्तिस्तदा कथं नु श्रमणः स्यात् ?, तस्मै वा श्रमणाय दीयमानं गृहस्थायेव न परमनिर्जराकारणमिति दातुर्दानादकार्यसिद्धिः । 'परीसहासहणंति' वस्त्रे परिभुज्यमाने योऽचेलत्वपरीषहः सूत्रेऽभिहितः यथा - "दंसांचेलारइत्थीउ इति" स न सोढो भवेत्, अथ च परीषहसहनेन साधुना भवितव्यम् । यदुक्तम् - "पेरीसहरिवू जए" इति, ततो न समीचीनो वस्त्रपरिभोगः । तथा गुरुणा - भगवता वर्द्धमानखामिना परि१ दंशाचेलारतिस्त्रियः । २ परीषहरिपून् जयेत् ।
tional
For Private & Personal Use Only
परिग्रहवि
रतौ दिगम्वरपूर्व -
पक्षः
॥ ३४८ ॥
www.jainelibrary.org