________________
Jain Education
याच्ञा महेच्छताभावप्रतिपन्थिनीति याच्या महान् दोषः । तथा 'संमुच्छणत्ति' वस्त्रे परिभुज्यमाने सति शरीरमलसंपर्कतः षट्पदिकादिजीवसंमूर्च्छना भवति, तथा नियमतः प्रावृट्कालप्रत्यासत्ती वस्त्रं प्रक्षालनीयमप्रक्षालनेऽनेकदोषसंभवात् ततश्च वस्त्रस्य धावने - प्रक्षालनेऽप्कायष्ट्पदिकादिप्राणिनां भवति व्यापत्तिः, तथा जघन्यतोऽपि कियद्रव्यव्यतिरेकेण वस्त्रस्यासंप्राप्तेस्तद्दाने दातुरपि पीडा भवति, अन्यच्च प्रच्छादनपटिकादिनिमित्तं विभिन्नवस्त्र - यसंधानादिषु क्रियमाणेषु परिमन्थः - खाध्यायविघातरूप उपजायते ।। १०९७ ॥
राढा मुच्छाय भयं अविहारो चेव भारवहणं च । तेनाहडाधिगरणं सोगो य पमायणद्वेवि ॥ १०१८ |
अत्यन्तकमनीयमहामूल्य वस्त्र परिधानेन चात्मनो राढा-विभूषा तेन कृता भवति, सा चात्यन्तं भगवद्भिर्गर्हिता, यदुक्तम् - " विभूसावत्तियं भिक्खू, कम्मं बंधइ चिक्कणं । संसारसागरे घोरे, जेणं पडइ दुरुत्तरे ॥ १ ॥ " तथाभूते च दुष्प्रापे वाससि प्राप्ते सति कुतः पुनरिदं प्राप्यमित्येवं तद्विषया मूर्च्छा भवति । तथा महामूल्यमिदं वस्त्रमिति इदं कश्चिदृष्ट्वा ग्रहीष्यतीत्येवं यतः कुतश्चिदाशङ्कमानस्य सर्वदैव वस्त्रपरिग्रहवतो भयमुपजायते । अत एव च ग्राम१ विभूषाप्रत्ययं भिक्षुः कर्म बध्नाति चिक्कणम् । संसारसागरे घोरे येन पतति दुरुत्तरे ||
asonal
For Private & Personal Use Only
www.jainelibrary.org