________________
***
धर्मसंग्रहणीवृत्तिः
परिग्रहविरतौ साव|द्यस्य शक्यपरिहारता
॥३४७॥
यत एवं ग्रामादिपरिग्रहफलोपभोगो दुष्टः 'ता' तस्मात्त्यक्तगृहवासानां भिक्षूणां प्रामादिपरिग्रहे दोषः । केषामिव कस्मिन्नित्याह-रयणेत्यादि' रत्नं महामूल्यं मुक्त्वा यथा काचमणिं गृह्णतामिति । इह रत्नस्थानीयः संयमो भवशतसहस्रैरपि दुष्प्रापत्वात् अक्षेपेण मुक्तिफलसाधकत्याच, काचमणिस्थानीयो ग्रामादिपरिग्रहस्तस्यैकान्ततोऽसारस्वादिति ॥ १.१५॥ तदेवं पञ्चमं मूलगुणमाश्रित्याक्षेपपरिहारावभिधाय सांप्रतं ये बोटिका धर्मोपकरणभूतस्यापि वस्त्रादेः परिग्रहत्वमनुमन्यन्ते तन्मतमपाकर्तुमुपक्षिपन्नाह
वत्थादिगंपि धम्मोवगरणमन्ने अदिट्टपरमत्था ।
संसारहेतुभूतं परिग्गहं चेव मन्नंति ॥ १०१६ ॥ ___ अन्ये वस्त्रादिकमपि आस्तामन्यद्धनकनकादीत्यपिशब्दार्थः धर्मोपकरणमष्टपरमार्थाः सन्तः परिग्रहमेव संसारहेतुभूतं मन्यन्ते, अनेकदोषोद्भावनेन ॥१०१६॥ तत्र तन्मतेन वस्त्रदोषांस्तावदुपदर्शयति
जायणसंमुच्छणमो धुवणे पाणाण होति वावत्ती।
दातारस्सवि पीडा संधणमादीसु पलिमंथो ॥ १०१७ ॥ 'जायणत्ति' वस्त्रपरिग्रहे अभ्युपगम्यमाने सति कथंचित्तदभावे तदर्थिना गृहस्थेभ्यस्तत् याचनीयं भवति, सा च |
**%AAAAAA
॥३४७॥
Jan Education Intemanona
For Private Personel Use Only
www.jainelibrary.org