________________
धर्मसंग्रहणीवृत्तिः
॥३४३॥
परितोषो धर्म्मार्थं भविष्यति ततो नारम्भानुमतिप्रसङ्ग इति, यतस्तदर्थमेव स आरम्भस्तत आत्मार्थमारम्भनिष्ठितं पिण्डादिकं भुञ्जनाः कथमेते दयालुतामनुवीरन् ?, आह च - " औहेशिकादिभोज्यपि तथैव ननु तुष्यतीत्यपि न युक्तम् । आत्मार्थं हि हतानां न यतिर्दयते स जीवानाम् ॥ १॥ हत्वात्मार्थं सत्त्वं समक्षमुपहतमुदीक्ष्य तन्मांसम् न हि गृह्णाति दयालुर्गृह्णन्ननु निर्दयो भवति ॥ २ ॥” इति ॥ यतयस्त्वात्मार्थमारम्भनिष्ठितं पिण्डादिकं न भुञ्जते ततो न तेषामारम्भानुमतिप्रसङ्गः, किंतु भिक्षूणामेव, तथा च कुतस्तेषां भिक्षुत्वम् १ ॥ ९९९ ॥ यत आहतिविहं तिविहेण जओ पावं परिहरति जो निरासंसो । भिक्खणसीलो य तओ भिक्खुत्ति निदरिसिओ समए ॥ १००० ॥
यस्मात्रिविधं त्रिविधेन मनोवचनकायैः प्रत्येकं करणकारणानुमतिलक्षणेन निराशंसः - इहपरलोकाशंसारहितः सन् यः पापम्-अवधं परिहरति भिक्षणशीलच, अनेन च भिक्षुशब्दस्य व्युत्पत्तिनिमित्तं दर्शयति, पूर्वार्द्धन तु प्रवृत्तिनिमित्तं, 'ततो' त्ति सको भिक्षुरितिः - एवं निदर्शितः समये । तत आरम्भनिष्ठितं पिण्डादिकं भुञ्जानस्य भिक्षोर्भिक्षुत्वमयुक्तमिति ॥ १००० ॥ अत्र परस्याभिप्रायमाह -
अह उस्सग्गेणेसो धूतगुणासेवणेक्कतन्निट्टो |
Jain Education International
For Private & Personal Use Only
परिग्रहविरतौ प्रामादिफ
लोपभोगे
ससङ्गता
॥ ३४३॥
wwww.jainelibrary.org