________________
धर्म. ५८ Jain Education
तत्थ पवित्तीओं अणुमतीऍ भिक्खुत्तणमजुत्तं ॥ ९९९ ॥
'आरम्भनिष्ठितम्' आरम्भेण निष्ठां नीतं पिण्डादिकं भुञ्जानानां भिक्षूणां भिक्षुत्वमयुक्तम् । कुत इत्याह-तत्र - आरम्भेऽनुमते :- अनुमतिसद्भावात् । सापि कथमवसीयते इति चेत्, उच्यते—- कथमन्यथा आरम्भनिष्ठिते पिण्डादौ भोजनार्थ प्रवृत्तिरुपपद्येत १, प्रवृत्तेरन्यथानुपपत्त्या साऽनुमतिरवसीयते । ननु भवन्मतेनापि यतेरारम्भानुमतिलक्षणो दोषोऽपरिहार्य एव, तथाहि — यत्र स लभते तत्र परितोषमुपयाति, ततो लाभविषयपरितोषसंभवेन नियमतस्तस्यारम्भानुमतिप्रसङ्गः, यदाह - " कथमेषणीयमपि भिक्षुरदन् हिंसां न सोऽनुमन्येत । परितुष्यति यलब्ध्वा ग्रहणं नास्त्यसति तोषे ॥ १॥” इति ॥ तदेतदयुक्तम्, लाभालाभयोस्तस्य परितोषवैक्लव्याभावात्, अन्यथा सम्यग्यतित्वानुपपत्तेः, तदाह - "नालाभे वैक्लव्यं न च लाभे विस्मयः कार्य इति" । भवतु वा परितोषस्तथापि नासावारम्भानुमतये, किंतु धर्मानुष्ठानवृद्धये, 'यथाऽनेन लब्धेन सुखं मे धर्मानुष्ठानमुत्सर्पतीति' ततो न कश्चिद्दोषः उक्तं च" इत्येष विप्रलापो न स तुष्यति येन जीवघाताय । सुखमुत्सर्पति मेऽयं धर्मोऽनेनेति तुष्यति तु ॥ १ ॥ ननु देहेन सामर्थ्य ( समर्थे) नानेन सुखं तपोऽधितिष्ठामि । इति तुष्यतोऽस्ति न यतेर्मातापितृमैथुनानुमतिः ॥ २॥” इति ॥ एष | इति अनन्तरोक्त आरम्भानुमतिप्रसङ्गापादा (द) नरूपः, न च वाच्यमेवं भिक्षुकाणामपि आरम्भनिष्ठितं भुञ्जानानां
For Private & Personal Use Only
www.jainelibrary.org