SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३४१॥ Jain Education लोके मधुरकशीतलिकादिवत्, नहि विषं मधुरमित्युक्तं सत् न व्यापादयति स्फोटिका वा शीतलिकेत्युक्ता सती न तुदति, तथारम्भोऽपि क्रियमाणः परार्थमित्युच्यमानोऽपि प्रकृत्या सावद्यत्वात् परलोकं बाधत एवेति ॥ ९९२ ॥ अत्रैव दूषणान्तरमाह - ये तेसिंपुवगारो तत्तो पडिवादितं पुरा एतं । बालादीणं वेयावच्चं तो होइ अह बुद्धी ॥ ९९३ ॥ न च तेषामपि - बुद्धादीनां ततः- आरम्भादुपकारो भवति किं त्वपकार एव, आरम्भस्य प्रकृत्या सावद्यत्वात्, एतच पुरा - प्राकू अनन्तरमेव 'पडिवाइयंति' प्रतिपादितम् । अथ स्यादियं बुद्धि: - ग्रामादिपरिग्रहेण बालादीनांबालवृद्धादीनां वैयावृत्यं कृतं भवति ततो न कश्चिद्दोषः ॥ ९९३ ॥ इति, अत्राह निरवजेणं विहिणा गुणजुत्ताणं तयंपि कायवं । सावज्जो य इमो खलु तेसिंपि य कुणइ गुणहाणिं ॥ ९९४ ॥ इदमपि - वैयावृत्यं निरवद्येनैव विधिना गुणयुक्तानामेव कर्त्तव्यं नतु यथाकथंचित् यस्य कस्यचिद्वा । अयं च - १ ण य बुद्धी तं तेसिं पु० क पुस्तके। For Private & Personal Use Only परिग्रहविरतौ धर्मार्थं परिग्रहण निरासः ॥३४१॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy