________________
Jain Education
स्यादेतत्, यो ममत्वरहितो रत्नत्रिकमेव - बुद्धादिलक्षणमाश्रित्यारम्भे वर्त्तते भिक्षुरपि, आस्तामुपासक इत्यपि - शब्दार्थः, 'तओत्ति' सको निर्दोष एव विज्ञेयः तस्य स्वार्थ प्रवृत्त्यभावादिति ॥ ९९० ॥ अत्राहमंसनिवत्तिं काउं सेवइ दंतिक्कगंति घणिभेदा ।
इय चइऊणारंभं परववएसा कुणइ बालो ॥ ९९१ ॥
यथा कश्चित्पुरुषो मांसनिवृत्तिं कृत्वा ततो विवेकविकलतया 'दंतिक्कगंति' ध्वनिभेदात् शब्दभेदात्तदेव मांसं सेवते, इतिः - एवममुना दृष्टान्तेनारम्भं त्यक्त्वा परव्यपदेशात् - रत्नत्रिकव्यपदेशेन करोत्यारम्भं बालः - अज्ञः, मांसनिवृत्तिं कृत्वा शब्दभेदेन तदेव मांसं खादयत इवास्यापि परव्यपदेशेनारम्भं कुर्वतो ध्रुवं नियमभङ्ग इतियावत् ॥ ९९९ ॥ कथमेतदेवमिति चेत् आह
पयईए सावज्जं संतं णणु सहा विरुद्धं तु ।
धणिभेदम्मिवि महुरगसीतलिगादिव लोगम्मि ॥ ९९२ ॥
ननु यस्मात् प्रकृत्या - खभावेन सावद्यं - सपापं सत् सर्वथा - सर्वैरपि प्रकारैः सेव्यमानं विरुद्धमेव - दुष्टमेव । तुरेवकारार्थः । ध्वनिभेदेऽपि खपरव्यपदेशभेदेऽपि सति । किमिव पुनः शब्दभेदेऽपि सति विरुद्धमित्यत आह- 'महुरेत्यादि'
1
For Private & Personal Use Only
ww.jainelibrary.org