SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३३७॥ Jain Education सुरतविषयस्य स्त्रीप्रतिसे वातो निवृत्तिः कर्त्तव्या, “संवत्था संजमं संजमाओ अप्पाणमेव रक्खेजा । मुचई अश्वांयाओ पुणो विसोही न याविरई ॥ १ ॥” इति वचनप्रामाण्यात् । अन्यथा रोगस्यापि निवृत्त्यर्थं चिकित्सा न कर्त्तव्या, तत्क | रणेऽपि नियमतः षडीवनिकायवधसंभवात् ॥ ९७७ ॥ अथोत्सर्गतः सा प्रतिषिद्धैव, केवलमसहमानस्यार्त्तध्यानपरिहाराय दीर्घकाल संयमपरिपालनाय च द्वितीयपदेनाभ्यनुज्ञाता ततो न कश्चिद्दोष इति यद्येवं तर्हि स्त्रीप्रतिसेवाप्येवं द्वितीयपदेन कर्त्तव्याऽस्तु विशेषाभावादित्यत आह नय भावमंतरेणं तत्थ पवित्ती तओ धुवो रागो । तभावम्मि य इह इं बीयपदं नत्थि नियमेणं ॥ ९७८ ॥ न च भावम् - अभिष्वङ्गलक्षणमन्तरेण तत्र - स्त्रीप्रति सेवायां प्रवृत्तिरुपपद्यते, किंतु भावेनैव, तथा लोके अविगानेनानुभवात्, अन्यथेन्द्रियविकारस्यैवानुपपत्तेः । ततश्च तस्मिन् भावे सति ध्रुवम् - अवश्यं रागो द्रष्टव्यः, अभिष्वङ्गस्य रागख रूपत्वात्, तद्भावे च-रागभावे च इह-प्रवचने इः पादपूरणे, “इजेराः पादपूरणे" इतिवचनात्, नियमेन नास्ति द्वितीयपदम् - अपवादपदं यतो यदनुष्ठानमासेव्यमानं रागादिनिबन्धनं न भवति तदपवादेनाभ्यनुज्ञायते यथा चिरका१ सर्वत्र संयमं संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात् पुनर्विशुद्धिर्नचाविरतिः । For Private & Personal Use Only ब्रह्मचर्ये मैथुननिर्दोषतानि - रासः ॥३३७॥ w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy