________________
पासवणादिव तओ कायठिती होइ कायवा ॥ ९७५ ॥
स्त्रीणामासेवनायां क्रियमाणायामेवम्-उपदर्शितेन प्रकारेणाधिकतररागादिदोषसंभवलक्षणेन शुभध्यानाभावादिदं प्रश्रवणादिवत् ततः कार्यस्थितिरेषा कर्त्तव्येत्येतत् पूर्वोक्तमयुक्तं ज्ञातव्यम् ॥ ९७५ ॥ शुभध्यानाभावमेव स्पष्टतर|मुपदर्शयन्नाह -
आसेवणाऍ तिस्सा तग्गयचिंतावियावियो होइ ।
मोहसहावातों जओ कत्तो झाणं सुहं तस्स ? ॥ ९७६ ॥
यतस्तस्याः - स्त्रिया आसेवनायां कृतायां सत्यां मोहखभावात् तद्गतरूपस्पर्शादिचिन्ताव्यापृतो भवति, ततस्तस्य कुतः शुभं ध्यानं भवेत् १, नैव भवेदितिभावः ॥ ९७६ ॥ अत्रैवाभ्युच्चयेनाह -
किंच विवेगप्पभवं तयं ति थीविग्गहेवि य पवित्ती ।
कलिमलभरिए जस्स उ तस्स विवेगो कहं अस्थि ? ॥ ९७७ ॥
किंच तत् - शुभं ध्यानं विवेकप्रभवं - विवेकमूलं यस्य च पुंसः स्त्रीविग्रहेऽपि कलिमलभृते प्रवृत्तिस्तस्य कथं विवेकोऽस्ति ?, नैवास्तीति भावः, तदभावाच्च कुतः शुभं ध्यानमिति १ । स्यादेतत्, रोगस्येव चिकित्सात औत्सुक्यस्यापि
धर्म. ५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org