SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ (४९) पञ्चाशकम् (५०) परलोकसिद्धिः (५१) पिण्डनियुक्तिवृत्तिः -~-इत्युल्लेखात् हरिभद्रकर्तृकतया संभाव्यमानम् (४९ ) अस्य टीकापि नवाङ्गवृत्तिकारैरभयदेवसूरिभिर्व्यरचि, तद्रचनाकालादिकं तु है पूर्वमेवोल्लिखितम् । दीक्षाविधि-चैत्यवन्दनविधि-पूजापञ्चाशकादीनि चास्यैवावयवभूतानीति न पृथग् गण्यन्ते । एकोनविंशतिपञ्चाशकात्मकस्या|ऽस्य प्रन्थस्य श्रावकधर्मविधिनाम्नः प्रथमपञ्चाशकस्य चूर्णिरपि यशोदेवसूरिकतोपलभ्यते, तद्विधानसमयादिकं तत्कतैव तदन्ते एवमुपन्यास्थत् "मंदमईण हियत्थं एसा चुन्नी समुद्धिया सुगमा। सिरिचंदकुलनहंगणमयंकसिरिचंदसूरीणं ॥२॥ सिरिवीरगणिमुणीसरबंधुरसिद्धंतसिंधुसिस्साणं । अंही निसिवमाणेहि सिरिमज्जसएवसूरीहिं ॥३॥ नयण-मुणि-थाणुमाणे काले विगयम्मि विक्कमनिवाओ । संपियाय (संसोहिया य) एसा विचुहेहि समयनिउणेहिं ॥४॥" (५०) लत्तस्य जैननामसंग्रहे वेबरस्य पुस्तके गणधरसार्धशतकवृत्तौ च निर्दिष्टेषा (५१) इमा स्थापनाख्यदोषविवरणपर्यन्तां निर्माय है देवभूयमाप्तेषु हरिभद्रसूरिषु वीराचार्यनामानः केचनाचार्यवास्तत्परिपूर्तिमकार्षः, तदिदमनेन वीरगणिविहितपिण्डनियुक्तिटीकायाः प्रारम्भपद्येन । स्फुटीभवति, तथाहि "पश्चाशकादिशास्त्रव्यूहप्रविधायका विवृतिमस्याः । आरेभिरे विधातुं पूर्व हरिभद्रसूरिवराः॥ ते स्थापनाख्यदोषं यावद्विवृतिं विधाय दिवमगमन् । तदुपरितनी तु कैश्चिद् वीराचार्यैः समाप्येषा ।" Jain Education in a For Private & Personel Use Only A jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy