SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Jain Education Int नियमा पाणिवहातो तप्पडिसेवातों चेव इत्थीणं । डिसेवणा ण जुत्ता मोक्खत्थं उज्जयमतीणं ॥ ९६६ ॥ मोक्षार्थमुद्यतमतीनां पुंसां स्त्रीणां प्रतिसेवा न युक्तेति साध्यनिर्देशः । हेतूनाह - खपरोभयपापात् - खपरलक्षणस्योभयस्य पापप्रसङ्गात्, तथा दृढतररागादिप्रसङ्गात्, तथा ज्वलनेन्धनप्रक्षेपन्यायेनाधिकतरं तद्गतरूपस्पर्शादिचिन्ताव्यापृतत्वेन शुभध्यानाभावात्, तथा नियमतस्तत्प्रतिसेवातः - स्त्रीणामा सेवनातः प्राणिवधात् - प्राणिवधप्रसङ्गादिति ॥ ॥ ९६५ ॥ ९६६ ॥ अमून् सर्वानपि हेतून् व्याचिख्यासुः 'यथोद्देशं निर्देश' इतिन्यायात् प्रथमं तावत् खपरोभयपापादिति हेतुं विवरीतुमाह सागमपसिद्धं मेहुणभावंमि पावमञ्चत्थं । तह परमसंकिलेसो अणुहवसिद्धो उ सवेंसिं ॥ ९६७ ॥ मैथुनभावे सेव्यमाने खपरयोः पापमत्यर्थं भवतीत्येतत्सर्वागमप्रसिद्धं तथा यः परमसंक्लेशोऽभिष्वङ्गलक्षणः सोऽपि सर्वेषामपि जन्तूनामनुभवसिद्ध एव । तुरेवकारार्थः ॥९६७॥ यदप्युक्तम्- 'सुहभावातो सपरोवयारो कह होइ दोसायत्ति' तत्रापि सुखभावाऽसिद्ध एव यत आह For Private & Personal Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy