SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Jain Education तत्तो सुझाणातो पासवणुच्चार खेलणातेणं । नियमस्स निष्फलत्ता अतिप्पसंगाउ अवि य गुणो ॥ ९५७ ॥ ततः - स्त्रीणामासेवनात् सकाशात् प्रस्रवणोच्चारखे लज्ञातेन- प्रखवणादिदृष्टान्तेन प्रस्रवणादिपरित्यागादिनेति - यावत् शुभध्यानभावात्, तथा कस्यचित् पुनः पुरुषस्य पीडाया अभावेन नियमस्य निष्फलत्वात्, तथा शरीरस्थि - तित्वाविशेषेण प्रस्रवणादिष्वपि प्रतिषेधकरणप्रसक्तेरतिप्रसङ्गात् न स्त्रीणामासेवनं दोषाय अपि तु तस्मिन् कृते सति गृज्यादिदोषाभावलक्षणो गुण एवोपजायते तस्मात्प्रलवणोच्चारखेलपरित्यागक्रियावदिदमुत्पन्ने वेदोदयजनिते दुःखे तदपाकर्तुमवश्यं कर्त्तव्यमिति ॥ ९५७ ॥ तत्र सर्वानपि हेतून् विवरीषुः 'यथोद्देशं निर्देश' इतिन्यायात् प्रथमं तावत् खपरोपकाररूपं हेतुं विवृण्वन्नाह मोहग्गिसंपलित्तं तं अप्पाणं च विज्झवेऊणं । सुभावातो सपरुवगारो कह होइ दोसाय ? ॥ ९५८ ॥ मोहाभिसंप्रदीप्तां ताम्-उपभोग्यां स्त्रियमात्मानं च मोहाभिसंप्रदीप्तं मैथुनासेवनजलेन विध्याप्य सुखभावात् For Private & Personal Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy