SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Jain Education चोरियभावे तह या बीहेज कलंकमरणातो ॥ ९५२ ॥ इतिः - एवमुपदर्शितेन प्रकारेण वस्तुखभावं ज्ञात्वा सुमनाः प्रशस्तमनाः सन् नैव चौर्यभावे प्रवर्त्तेत । तथा यदुक्तं'न य मरणा बीहेजत्ति' तत्प्रतिक्षेपेणोपसंहरति- 'तह येत्यादि' तथा बिभीयात् सर्वदा कलङ्करूपात् मरणात् येन सर्वथा चौर्ये प्रवृत्तिर्न भवतीति ॥ ९५२ ॥ यथोक्तं- 'हरिएवि पुचगं चिय इत्यादि' तत्राह - हरिऊण य परदवं पूयं जो कुणइ देवतादीणं । दहिऊण चंदणं सो करेइ अंगारवाणिजं ॥ ९५३ ॥ हृत्वा च परद्रव्यं यः पूजां करोति देवतादीनामादिशब्दाद्वीरपुरुषपरिग्रहः स नूनं दग्ध्वा चन्दनं करोत्यङ्गार - वाणिज्यम्, एतदुक्तं भवति — यथा कश्चिदज्ञस्तुच्छाङ्गारवाणिज्यनिमित्तं महामूल्यचन्दनकाष्ठानि दहति एवमे | पोऽपि तुच्छ फलस्कन्दादिदेवतापूजार्थमात्मानं विशुद्धखभावतया चन्दनादपि महामूल्यं परवित्तापहरण हेतु संक्लिष्टमनःपरिणामहुतवहेन भस्मसात्करोतीति ॥ ९५३ ॥ यथैव परेण चौर्ये निःशङ्कप्रवृत्त्यर्थमन्येभ्य उपदेशो दत्तस्तेनैव प्रकारेणाचौर्येऽपि अनुकम्पया परं प्रत्युपदेशमाह - लोगम्मि य परिवादं कुकम्मपडिसेहणेण रक्खेज्जा । For Private & Personal Use Only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy