________________
धर्मसंग्रहणीवृत्तिः
॥३३॥
जुजंति तेण तस्सा एवं खलु संगतं उभयं ॥ ९५० ॥ अत एवं 'ता' तस्मादन स-हिंसको दाता च येन कारणेन द्वयोरपि भावयोः-आयुरपवर्तनलाभान्तरायक्षयोपशमावस्थापादनलक्षणयोर्निमित्तं-कारणं तेन कारणेन तस्य दातुहिसकस्य च यथाक्रमं गुणदोषौ युज्यते, तत एवमुक्तेन प्रकारेण खलु-निश्चितं संगतमुभयं-दातुः पुण्यं हिंसकस्य च पापमिति ॥ ९५०॥ अत्राह
जइ एवं धणनासे तओ निमित्तंति तस्स दोसो उ।
अह णो निमित्तमिहई इतरत्थ तयंति का जुत्ती ? ॥ ९५१ ॥ यद्येवमभ्युपगम्यते तर्हि परेषां धननाशेऽपि 'तउत्ति सकोऽदत्तादानग्राही निमित्तं-कारणमिति, तस्मान्मार्यमाणपुरुषायुषोपक्रमणनिमित्तस्य हिंसकस्येव तस्य-परवित्तमपहर्तुर्दोष एव । तुरेवकारार्थः। अथ तस्मिन् धननाशे स न निमित्तमिष्यते किंतु विधिसृष्ट एव स परेषां धननाशस्ततो न स तत्र निमित्तमिति । अत्राह-'इयरत्थ तयंति का जुत्ती' इतरत्र-हिंसायां दाने च तकत्-निमित्तं स दाता हिंसकश्च भवतीत्यत्र का युक्तिः १, नैव काचिदिति भाव, उभयोरपि तुल्ययोगक्षेमत्वात् ॥९५१ ॥ उपसंहारमाह
इय वत्थुसहावं जाणिऊण सुमणो उ णो पयट्टेजा।
अदत्तादानविरतौचौर्यस्यवणिकलोपमतानिरासः
SHCECRECORRECTORXXX
॥३३॥
Jain Education
national
For Private & Personal Use Only
www.jainelibrary.org