SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ धर्म. ५६ Jain Educatio अथोच्येत - मरणे क्रियमाणे मार्यमाणस्य जन्तोरायुरुपक्रम्यते - दीर्घकालवेद्यं सत् अल्पकालवेद्यतया क्रियते, इहापि - दाने यस्मै दीयते तस्यैव यल्लाभान्तरायं कर्म्म तत् दानेनोपक्रम्यते -क्षयोपशमावस्थीक्रियते, न च वाच्यं कथं दीर्घकालतया बद्धं सत् स्वल्पकालवेद्यतया क्रियते कथं वा उदितं सत् क्षयोपशमावस्थीक्रियते ?, यत आह- 'जं दवाई पप्प उदयाई' यत् - यस्मात् द्रव्यादीन् प्राप्य कर्म्मणामुदयादयः - उदयक्षयक्षयोपशमादयो जायन्ते तस्मादायुष उपक्रमणं - खल्पकालवेद्यतयोपस्थापनलक्षणं लाभान्तरायस्य च क्षयोपशमावस्थापादानरूपं न विरुध्यते इति ॥ ॥ ९४८ ॥ द्रव्यादीनेवाश्रित्य कर्मणामुदयादीन् दर्शयति उदयक्खयक्खओवसमोवसमा एवस्थ कम्मुणो भणिता । दवं खेत्तं कालं भवं च भावं च संपप्य ॥ ९४९ ॥ उदयक्षयक्षयोपशमोपशमा अत्र - जगति प्रवचने वा कर्म्मणः - आयुरादेर्भणितास्तीर्थकरगणधरैर्द्रव्यं क्षेत्रं कालं भवं च भाषं च संप्राप्य, यथा निद्रावेदनीयस्य द्रव्यं माहिषं दधि, क्षेत्रं जाङ्गलं, कालं रात्रिलक्षणं प्रावृड्लक्षणं वा, भवं मनुष्यतिर्यक्संबन्धिनं, भावम् आलस्यादिकं प्रतीत्योदय इति ॥ ९४९ ॥ ता एत्थ सो निमित्तं दोपहवि भावाण जेण गुणदोसा । For Private & Personal Use Only nelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy