________________
धर्म संग्रहणीवृत्तिः
॥३२९॥
Jain Education I
प्रायोऽनवद्या वृत्तिरेषा, निश्चयतः पुनः सोऽपि वाणिज्योचितकलासंभवी परिणामः प्रतिषिद्धः ॥ ९४२ ॥ कथमेतदवसीयत इति चेत् ? आह
उचियादत्थगं चि धम्मादुचितत्तणेण तस्सत्ति । पडिसेहविहाणा इय इट्टेयरसिद्धिकलियाई ॥ ९४३ ॥
यस्मान्निश्चयनयमतेन इदं वाणिज्यमुचितमादिशब्दादनुचितं सर्वथानर्थकमेव - अनर्थ करमेव इति, तस्मात्तस्य वाणिज्यस्य धर्माद्युचितत्वेन ये प्रतिषेधविधाने ते इष्टेतर सिद्धिकलिते - प्रतिषेध इष्टसिद्धिकलितो विधानमनिष्टसिद्धिकलितमिति । ननु कथं धर्मोचितस्य प्रतिषेध इष्टसिद्धिकलितः १, तस्य धर्मफलत्वेनोपादातुमुचितत्वात् न, निश्वयतो धर्म्मार्थं तत्र प्रवृत्ताविष्यमाणायां तदभावस्यैव कर्तुमुचितत्वात् सर्वसङ्गपरित्यागस्तत्त्वतो धर्म इति हि समयसारविदः, तदुक्तम् — “धम्र्म्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१॥ इति" यदा तु कम्र्मोदयदोषतो न निश्चयतो धर्मे प्रवर्त्तितुमुत्सहते तदा वरमुचितवाणिज्यकलायामेव प्रवर्त्तेत, तस्याः प्रायो निरवद्यवृत्तित्वात् नतु चौर्यादिकर्म्मणि, तस्य नरकादिकुगतिहेतुसंक्लिष्टपरिणामकारणत्वादत एवोच्यते 'वाणिज्जुचियकलाए तु णेवमपसत्थगो मुणेयवोत्ति' ॥ ९४३ ॥ यच्चोक्तं 'समणाणमित्यादि' तत्राह -
For Private & Personal Use Only
अदत्तादानविरतौ
चौरिका
या निर्दोपतानिराकरणं
॥३२९॥
jainelibrary.org