SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ भावो नाशुभवाकायचेष्टानिरोधमात्रनिबन्धनः किंत्वनुकुलकर्मविपाकोदयसंभवनिमित्तस्ततोऽशुभवाकायचेष्टानिरोधेऽपि कृते सति यदाऽनुकूलकर्मविपाकोदयो भवति तदाशुभो भाव उपजायते नत्वन्यदेत्येतत्सूचनार्थ प्रायोग्रहणमिति, तस्माच शुभभावादुपजायमानादचिरेण तस्य संक्लिष्टमनःपरिणामस्य क्षयो भवति, तस्य तेन विरुद्धत्वात् , ज्वलनस्येव जलादिति । इह न यतः कारणानुच्छेदे कार्यस्योच्छेदो भवति ततोऽशुभमनःपरिणामनिवृत्त्यर्थ तत्सहकारिभूताशुभवाकायचेष्टानिरोध उपात्तः, नच पवनादिसहकारिमात्रनिरोधेऽपि कृते सति हुतवहो विध्यायति यावत् न सलिलसंपातो भवति तत इहापि तत्प्रतिपक्षभूतः शुभभाव उपात्तो, न चासावपि प्रायोऽशुभवाकायचेष्टानिरोधलक्षणसहकारिकारणमन्तरेणोदयते इति तदुपादानमपि सफलमेवेति स्थितम् ॥ ९४१॥ यचोक्तम्-'वाणिजुचियकलं चियेति (कलंपिवेति) तत्राह वाणिज्जुचियकलाए तु णेवमपसत्थगो मुणेयवो। पायमणवजवित्ती निच्छयओ सोवि पडिसिद्धो॥९४२ ॥ वाणिज्योचितकलायां तु न एवं-चौर्योचितकलायामिवाप्रशस्तकः परिणामो ज्ञातव्यः किंतु प्रशस्तः, यतः MACARRORRECRUARMAHAKA in Education For Private & Personel Use Only w .jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy