________________
गहितोवि अमोक्खाए मरणंतं जीवियं विचिंतेजा ।
कुज्जा य पुरिसगारं दोण्हवि लोगाण फलहेडं ॥ ९३४ ॥ गृहीतोऽप्यारक्षकैरमोक्षाय यथा-'न वयमेनं दुराचारं मुञ्चामः किंतु मारयाम (म्रियामहे) इति', मरणान्तं जीवितं विचिन्तयेत्-इदं हि जीवितं मरणपर्यवसानं ततो नियमात् पश्चादपि मर्तव्यं तद्वरमिदानीमेव युक्तं न्यायप्राप्तत्वादिति पर्यालोचयेत् , कुर्याञ्च पुरुषकारम्-अदीनत्वलक्षणं द्वयोरपि-इह पररूपयोर्लोकयोः फलहेतुभूतमिति ॥ ९३४॥ उपसंहरति
इय खंदरुद्दविहिणा पयट्टमाणस्स सुद्धभावस्स ।
वाणिज्जुचियकला विव निदोसा चोरिगा केइ ॥ ९३५ ॥ __ इतिः-एवं प्रदर्शितेन प्रकारेण स्कन्दरुद्रविधिना-स्कन्दरुद्राभिधानशास्त्रोक्तविधिना प्रवर्त्तमानस्य शुभभावस्य वाणिज्योचितकलेव निर्दोषा चौरिका-चौरक्रिया, "द्वन्द्वचौरादिभ्य” इति चौरशब्दात्कम्मणि बुञ्प्रत्ययः, इति केचिद् ब्रुवते ॥ ९३५ ॥ अत्राचार्य आह
भण्णइ विहिसिदा जीविगत्ति जं भणियमेत्थ को णु विही? ।
Jain Education in
For Private & Personel Use Only
jainelibrary.org