SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ tortor "सम्यङ्न्यायस्य वक्तारं प्रणिपत्य जिनेश्वरम् । न्यायप्रवेशकव्याख्यां स्फुटार्थी रचयाम्यहम् ॥१॥ रचितामपि सत्प्राज्ञैविस्तरेण समासतः । असत्प्राज्ञोऽपि संक्षिप्तरुचिसत्त्वानुकम्पया ॥२॥" एतेन जैनग्रन्थावल्यादौ निवेदितं मूलस्य टीकायाश्च हरिभद्रकर्तृकत्वं निरस्तं भवति, 'रचितामपि सत्प्राज्ञैर्विस्तरेण' इति युक्त्यनुपपत्तेः । है प्रान्तनिबद्धस्य "पदार्थमात्रमाख्यातमादौ दिमात्रसिद्धये । यात्र युक्तिरयुक्तिर्वा साऽन्यत्र सुविचारिता ॥१॥" -इति श्लोकस्य टीकायामपि 'अन्यत्र'-शब्दव्याख्याने "अन्यत्र-प्रमाणसमुच्चयादौ" इत्यनेन प्रकृतग्रन्थस्य प्रमाणसमुच्चयस्य चैककर्तृकतांग ४|सूचयता टीकाकारेण मूलग्रन्थस्य दिङ्नागकृतकत्वमेवाभिप्रेतम् । यद्यपि टीकायाम्-"उक्तं चानेनैव अन्यकृता" इति वक्तव्ये "उक्तं च दिमा-18 |गाचार्येण" इति वदता टीकाकृतैवास्य अदिग्नागकर्तृकत्वं द्योत्यते तथापि प्रमाणसमुच्चयस्य यावद् दिग्नागकृतकत्वमेव संसिद्धं तावदस्यापि दिग्ना-1 |गकृतकत्वमेवाभिमन्तुं युक्तम् , शैलीविशेषश्च उपरिनिर्दिष्टोपन्यासहेतुरवधेयः । अस्याश्च पार्श्वदेवगणिकृता पन्जिकाप्युपलभ्यते, यस्या निर्माणसमयं तद्रचयितैव तदन्ते "न्यायप्रवेशशास्त्रस्य सद्वत्तेरिह पञ्जिका । खपरार्थ दृब्धा स्पष्टा पार्श्वदेवगणिनाम्ना ॥१॥ ग्रह-रस-रुद्रेयुक्ते विक्रमसंवत्सरे तु(ऽनु) राधायाम् । कृष्णायां च नवम्यां फाल्गुनमासस्य निष्पन्ना ॥२॥" Jain Education For Private & Personel Use Only New.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy