________________
ग्रन्थकार
(३७) धूर्ताख्यानम् ( ३८) ध्यानशतकवृत्तिः (३९) नन्द्यध्ययनटीका (४०) नानाचित्रप्रकरणम् (४१) न्यायप्रवेशकटीका | (शिष्यहिता)
परिचयः
॥१५॥
-SAROSAROSES ARROROSCALEMS
"तत्क्रमिको देवप्रभसूरिः किल पाण्डवायनचरित्रम् । श्रीधर्मसारशास्त्रं च निर्ममे सुकविकुलतिलकः ॥१३॥" -इति पद्येन संसूचयन्ति स्म । (३७) धूर्तानां कथानकद्वारेण पुराणादीनामसम्बद्धवाचकत्वप्रदर्शकमिदं प्राकृतभाषामयमाख्यानम् (३८) प्रतिक्रमणविधिप्रकाशे हरिभद्रसूरिकर्तृकेयमिति निर्दिष्टा (३९) गणधरसार्धशतकवृत्तावियं हारिभद्रीयटीकाग्रन्थेषु परिगणिता । मलयगिरिपादा अप्यस्याः कर्तृत्वेन हरिभद्रसूरीननेन श्लोकेनोपश्लोकयन्ति नन्दीटीकाप्रान्ते, यथा
"मध्येसमस्तभूपीठं यशो यस्याभिवर्धते । तस्मै श्रीहरिभद्राय नमष्टीकाविधायिने ॥" (४०) इदं प्राकृतगाधानिबद्धं प्रकरणं संक्षेपतोऽपि सरसशैल्या धर्मतत्त्वं प्रतिपादयति । "नाणाचित्ते लोए" इत्यादिप्रारम्भे 'नानाचित्र'शब्दविन्यासाच प्रकरणमपि 'नानाचित्र-'मिति ख्यातम् । इदमेव केचन 'ज्ञानादित्य'नाम्ना अपरे च 'नानाचित्रिका'शब्देन व्यवहरन्ति (४१) दिग्नागाचार्यरचितस्य बौद्धमताभिमतप्रमाणादिपदार्थनिरूपकस्याऽस्य न्यायप्रवेशकनानो ग्रन्थस्य टीकैव हरिभद्रसूरिकर्तृका न मूलमपि, तथा च तदादौ
॥१५॥
Jain Education
national
For Private & Personel Use Only
X
w w.jainelibrary.org