________________
यत एवमेकान्तपक्षे परपीडासंभवे च भाषा मृषा भवति 'ता' तस्मादुपयोगपूर्विकैव-एवमियं सत्या अन्यथा मृषेत्यालोचनापूर्विकैव भाषाज्ञस्य-भाषाखरूपं जानानस्य या भाषाऽनेकान्तखरूपा सर्वेषां च प्राणिनामपरितापनी४ अपीडाकरी, एतदेव स्पष्टयति-मधुरा-श्रवणपथमुपगता सती हृदयानन्दकारिणी सा सत्या नत्वन्येति ॥ ९२५ ॥ तृतीयं मूलगुणमाश्रित्याक्षेपपरिहारौ प्रतिपिपादयिपुराह
केइ अदत्तादाणं विहिसिट्टा जीविगत्ति मोहातो।
वाणिजुचियाकलं पिव निदोसं चेव मन्नंति ॥ ९२६ ॥ | केचिददत्तादानं वाणिज्योचितकलामिव-क्रयाणकग्रहणदानादिच्छेकतालक्षणां निर्दोषमेव मन्यन्ते । कुत इत्याह'विहिसिट्ठा जीविगत्ति मोहाओ' विधिना सृष्टा इयमदत्तादानलक्षणा जीविका वणिजामिव वाणिज्यकला ततो न दोष इति मोहात्-बुद्धिविपर्यासात् ॥ ९२६ ॥ सांप्रतमिदमेव परमतं प्रपञ्चयितुकामः कोऽस्यादत्तादानस्योचित इति तदुचितमाह
सेसकलारहिओ च्चिय साहसजुत्तो य पयइदक्खो य । सत्तुक्कडोऽविसाई अदत्तदाणोचितो भणितो ॥ ९२७ ॥
Jaiधर्म. ५५
For Private & Personal Use Only
O
w.jainelibrary.org