________________
Jain Education
एवं चिय जोएना सिद्धाऽभवादिसु सर्व्वसु । सम्मं विभज्जवादं सव्वण्णुमयाणुसारेणं ॥ ९२९ ॥
raha सिद्धाव्यादिवपि सर्वेषु भावेषु सर्वज्ञमतानुसारेण पररूपादिना प्रकारेण सम्यग्विभज्यवादं विकल्पनीयवादमनेकान्तवादमितियावत् योजयेत् - संबन्धयेत् ॥ ९२९ ॥ पुनरपि मृषावाददोषपरिहारार्थमुपदेशान्तरमाहएतं होहित कल नियमेण अहं च णं करिस्सामि । एमादीवि न वच्चं सच्चपइन्त्रेण जइणा उ ॥ ९२२ ॥
एतत् -विवक्षितप्रयोजनं नियमेन - अवश्यंतया कल्यं - श्वस्तनदिने भविष्यति । कल्यमिति “कालाध्वभावदेशं वा कर्म चाकर्मणामिति" द्वितीया, यथा मासमास्ते इत्यत्र । अहं च 'णमिति' वाक्यालङ्कारे एतत् - प्रयोजनं कल्ये | नियमेन करिष्यामीत्येवमाद्यपि सत्यप्रतिज्ञेन यतिना सर्वथा न वक्तव्यमेव, प्रतिज्ञाव्याघातसंभवात् । 'जइणा उ इति' तुरेवकारार्थो भिन्नक्रमश्च स च यथास्थानं योजितः ॥ ९२२ ॥ प्रतिज्ञाव्याघातसंभवमेवोपदर्शयतिबहुविधो जिलोओ चित्ता कम्माण परिणती पावा ।
For Private & Personal Use Only
w.jainelibrary.org