________________
ज्ञायते शब्देन वोच्यते न चैकान्त(ताभाव) रूपे बुद्धिध्वनी प्रवर्तते । तस्मात्खरस्य शिरसि शृङ्गसंवन्धरहितत्वलक्षणः परिणतिविशेष एव खरशृङ्गाभावः, स च परिणतिविशेषो वस्तुखभावस्तत्कथमेष खरशृङ्गाभा(वोऽभा)व एवोच्यते ?, स्वरूपेणास्तित्वस्यापि भावादिति । प्रकारान्तरेणामुमेकान्तं विघटयन्नाह-'अहवेत्यादि' भवत्वेकान्तेन तुच्छरूपं खरशृङ्गं यथा परैः कल्प्यते तथापि न तत् एकान्तेन नास्त्येव, यतस्तदपि पररूपेण नास्ति खरूपेण पुनरस्त्येव ॥ ९१७ ॥ ननु यदि तदपि खरूपेणास्तीत्युच्यते ततो घटादिवत्तस्यापि भावः प्राप्नोति, इत्यत आह
नत्थित्तत्थित्तेणं तदभावे तस्स पावती भावो।
नत्थित्तस्थित्तं पुण विन्नेयमभावभावो उ ॥ ९१८ ॥ नास्तित्वास्तित्वलक्षणेन खरूपेण तदस्तीत्युच्यते न पुनर्घटादिवत् भावरूपेण ततो न पूर्वोक्तदोषप्रसङ्गः । इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा तदभावे-नास्तित्वरूपास्तित्वाभावे सति तस्य-खरशृङ्गस्य भावःप्राप्नोति, नास्तित्वाभावे, हि बलादस्तित्वमेवापद्यते इति भावः। नास्तित्वास्तित्वं पुनर्विज्ञेयम् 'अभावभावो उत्ति' अभावरूपतया यो भावः स एव । तुरवधारणार्थः ॥ ९१८ ॥ पुनरपि परः प्रकारान्तरेण एकान्तमुपदर्शयति
सम्मत्तनाणचरणा मोक्खपहो चेव एत्थ एगंतो।
Jain Education
For Private
Personal Use Only