________________
%AAAA
यदि खरूपास्तित्वमेव पररूपनास्तित्वमभ्युपगम्यते तर्हि तयोरभेदोऽभ्युपगतः स्यात् , तथा च सति ततः-खरूपसत्त्वात्तस्य-पररूपनास्तित्वस्याभेदे सति तेन-पररूपनास्तित्वेन रहितं तत्-खरूपसत्त्वं, ततश्च नियमाद्-अवश्यतया तस्मिन्-खरूपसत्वे पररूपमपि प्राप्नोति, तथाहि-यदि खरूपसत्त्वादव्यतिरिक्तं पररूपनास्तित्वं ततस्तदव्यतिरिक्तत्वात्स्वरूपवत् पररूपनास्तित्वं खरूपसत्त्वमेव जातं ततः पररूपनास्तित्वाभावस्तथा च सति बलात्तत्र पररूपास्तित्वं ६ प्रसज्यते, विधिप्रतिषेधयोरेकतरप्रतिषेधस्सापरविधिनान्तरीयकत्वात् , ततश्च पररूपेणाप्यस्तित्वप्रसङ्गात्तदभावःखरूपसत्त्वाभावः प्राप्नोति ॥ ९१४ ॥
भण्णइ अत्थित्तं चिय नत्थित्तं णणु विरुद्धमेयंति ।
परिकप्पियं अह तयं इय इतरं सबरूवं तु ॥ ९१५ ॥ | स्यादेतत् न यदेव खरूपास्तित्वं तदेव पररूपनास्तित्वमित्यनेनास्तित्वनास्तित्वयोरभेदो भण्यते किंत्वस्तित्वमेव-12 खरूपसत्त्वमेव पररूपनास्तित्वं-पररूपासत्त्वं ततो यथोक्तदोषानवकाश इत्यत्राह-'ननु विरुद्धमेयंतित्ति' नन्वेतत्अस्तित्वमेव नास्तित्वमिति विरुद्धं, तथाहि-येनैव रूपेणास्तित्वं कथं तेनैव रूपेण नास्तित्वमिति विरोधः। अत्र पराभिप्रायमाह-'परीत्यादि' अथोच्येत तत्-पररूपनास्तित्वं तत्र परिकल्पितं ततः पररूपेणायमात्मा नास्तीति
SACROCROSAROSAROCAROLOGANA
A
A5%
Jan Educati
o
nal
For Private
Personel Use Only
dow.jainelibrary.org